Book 1 • Chapter 1
Sankshepa Ramayanam
5 verses
Verse 1
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्
Verse 2
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः
Verse 3
चारित्रेण च को युक्तः सर्वभूतेषु को हितः विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः
Verse 4
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे
Verse 5
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्
0:000:00
Speed: