Book 1 • Chapter 27
Sarga 27
26 verses
Verse 1
अथ तां रजनीमुष्य विश्वामित्रो महायशाः प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम्
Verse 2
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः
Verse 3
देवासुरगणान्वापि सगन्धर्वोरगानपि यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः
Verse 4
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव धर्मचक्रं ततो वीर कालचक्रं तथैव च विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम्
Verse 5

Verse 6

Verse 7
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज
Verse 8
धर्मपाशमहं राम कालपाशं तथैव च पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम्
Verse 9
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा
Verse 10
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः वायव्यं प्रथनं नाम ददामि च तवानघ
Verse 11
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च शक्तिद्वयं च काकुत्स्थ ददामि तव राघव
Verse 12
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः
Verse 13
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः असिरत्नं महाबाहो ददामि च नृपात्मज
Verse 14
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः प्रस्वापनप्रशमने दद्मि सौरं च राघव
Verse 15
दर्पणं शोषणं चैव सन्तापनविलापने मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा पैशाचमस्त्रं दयितं मोहनं नाम नामतः प्रतीच्छ नरशार्दूल राजपुत्र महायशः
Verse 16

Verse 17
तामसं नरशार्दूल सौमनं च महाबल संवर्धं चैव दुर्धर्षं मौसलं च नृपात्मज सत्यमस्त्रं महाबाहो तथा मायाधरं परम् घोरं तेजः प्रभं नाम परतेजोऽपकर्षणम् सौम्यास्त्रं शिशिरं नाम त्वष्टुरस्त्रं सुदामनम् दारुणं च भगस्यापि शितेषु मथ मानवम्
Verse 18

Verse 19

Verse 20
एतान् राम महाबाहो कामरूपान् महाबलान् गृहाण परमोदारान् क्षिप्रमेव नृपात्मज
Verse 21
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्
Verse 22
सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत्
Verse 23
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम्
Verse 24
ऊचुश्च मुदितास्सर्वे रामं प्राञ्जलयस्तदा इमे स्म परमोदाराः किङ्करास्तव राघव
Verse 25
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना मानसा मे भविष्यध्वमिति तानभ्यचोदयत्
Verse 26
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् अभिवाद्य महातेजा गमनायोपचक्रमे
0:000:00
Speed: