Book 4 • Chapter 5
Sarga 5
32 verses
Verse 1
ऋश्यमूकात्तु हनुमान्गत्वा तु मलयं गिरिम् आचचक्षे तदा वीरौ कपिराजाय राघवौ4.5.1
Verse 2
अयं रामो महाप्राज्ञ स्सम्प्राप्तो दृढविक्रमः लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः4.5.2
Verse 3
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः धर्मे निगदितश्चैव पितुर्निर्देशपारगः4.5.3
Verse 4
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः रावणेन हृता भार्या स त्वां शरणमागतः4.5.4
Verse 5
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः दक्षिणाश्च तथोत्सृष्टा गावश्शतसहस्रशः4.5.5 तपसा सत्यवाक्येन वसुधा येन पालिता स्त्री हेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः4.5.6
Verse 6
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः दक्षिणाश्च तथोत्सृष्टा गावश्शतसहस्रशः4.5.5 तपसा सत्यवाक्येन वसुधा येन पालिता स्त्री हेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः4.5.6
Verse 7
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ4.5.7
Verse 8
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः भयं चराघवाद्घोरं प्रजहौ विगतज्वरः सकृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्4.5.9
Verse 9
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः भयं चराघवाद्घोरं प्रजहौ विगतज्वरः सकृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्4.5.9
Verse 10
भवान्धर्मविनीतश्च विक्रान्तस्सर्ववत्सलः आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः4.5.10
Verse 11
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो यत्त्वमिच्छसि सौहार्दं वानरेण मया सह4.5.11
Verse 12
रोचते यदि वा सख्यं बाहुरेष प्रसारितः गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा4.5.12
Verse 13
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् सम्प्रहृष्टमना हस्तं पीडयामास पाणिना4.5.13 हृद्यं सौहृदमालम्ब्यपर्यष्वजत पीडितम्
Verse 14
ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः काष्ठयोस्स्वेन रूपेण जनयामास पावकम् दीप्यमानं ततो वह्निं ह्निं पुष्पैरभ्यर्च्य सत्कृतम्4.5.15 तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः
Verse 15
ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः काष्ठयोस्स्वेन रूपेण जनयामास पावकम् दीप्यमानं ततो वह्निं ह्निं पुष्पैरभ्यर्च्य सत्कृतम्4.5.15 तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः
Verse 16
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ
Verse 17
ततस्सुप्रीतमनसौ तावुभौ हरिराघवौ4.5.17 अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः
Verse 18
त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ4.5.18 सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्
Verse 19
ततस्सुपर्णबहुलां छित्वा शाखां सुपुष्पिताम्4.5.19 सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः
Verse 20
लक्ष्मणायाथ संहृष्टो हनूमान् प्लवगर्षभः4.5.20 शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्
Verse 21
ततः प्रहृष्टस्सुग्रीवः श्लक्ष्णं मधुरया गिरा4.5.21 प्रत्युवाच तदा रामं हर्षव्याकुललोचनः
Verse 22
अहं विनिकृतो राम चरामीह भयार्दितः4.5.22 हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः
Verse 23
सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः4.5.23 वालिना निकृतो भ्रात्रा कृतवैरश्च राघव
Verse 24
वालिनो मे महाभाग भयार्तस्याभयं कुरु4.5.24 कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा
Verse 25
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः4.5.25 प्रत्यभाषत काकुत्स्थ: सुग्रीवं प्रहसन्निव
Verse 26
उपकारफलं मित्रं विदितं मे महाकपे4.5.26 वालिनं तं वधिष्यामि तव भार्यापहारिणम्
Verse 27
अमोघास्सूर्यसङ्काशा ममैते निशिताश्शराः4.5.27 तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः4.5.28 तीक्ष्णाग्रा ऋजुपर्वाणस्सरोषा भुजगा इव
Verse 28
अमोघास्सूर्यसङ्काशा ममैते निशिताश्शराः4.5.27 तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः4.5.28 तीक्ष्णाग्रा ऋजुपर्वाणस्सरोषा भुजगा इव
Verse 29
तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः4.5.29 शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम्
Verse 30
स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्4.5.30 सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत्
Verse 31
तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुंममाग्रजम्4.5.31
Verse 32
सीता कपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति4.5.32
0:000:00
Speed: