🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 1

Sarga 1

201 verses

Verse 1
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः इयेष पदमन्वेष्टुं चारणाचरिते पथि
Verse 2
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ
Verse 3
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः धीरः सलिलकल्पेषु विचचार यथासुखम्
Verse 4
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी
Verse 5
नीललोहितमांजिष्ठपत्रवर्णैः सितासितैः स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः
Verse 6
नीललोहितमांजिष्ठपत्रवर्णैः सितासितैः स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः
Verse 7
 तस्य गिरिवर्यस्य तले नागवरायुते तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ
Verse 8
 सूर्याय महेन्द्राय पवनाय स्वयंभुवे भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्
Verse 9
अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्
Verse 10
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु
Verse 11
निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् बाहुभ्यां पीडयामास चरणाभ्यां  पर्वतम्
Verse 12
 चचालाचलश्चापि मुहूर्तं कपिपीडितः तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्
Verse 13
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा
Verse 14
तेन चोत्तमवीर्येण पीड्यमानः  पर्वतः सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः
Verse 15
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः
Verse 16
मुमोच  शिलाः शैलो विशालाः समनःशिलाः मध्यमेनार्चिषा जुष्टा धूमराजीरिवानलः
Verse 17
गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः
Verse 18
 महासत्त्वसन्नादः शैलपीडानिमित्तजः पृथिवीं पूरयामास दिशश्चोपवनानि 
Verse 19
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः
Verse 20
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा
Verse 21
यानि चौषधजालानि तस्मिन् जातानि पर्वते विषघ्नान्यपि नागानां  शेकुः शमितुं विषम्
Verse 22
भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्री गणैः सह पानभूमिगतं हित्वा हैममासवभाजनम् पात्राणि  महार्हाणि करकांश्च हिरण्मयान् 5.1.23 लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि  आर्षभाणि  चर्माणि खडगांश्च कनकत्सरून्
Verse 23

Verse 24

Verse 25
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे
Verse 26
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह
Verse 27
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्
Verse 28
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् चारणानां  सिद्धानां स्थितानां विमलेऽम्बरे
Verse 29
एष पर्वतसङ्काशो हनुमान् मारुतात्मजः तितीर्षति महावेगस्समुद्रं मकरालयम्
Verse 30
रामार्थं वानरार्थं  चिकीर्षन् कर्म दुष्करम् समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति
Verse 31
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् तमप्रमेयं ददृशुः पर्वते वानरर्षभम्
Verse 32
दुधुवे   रोमाणि चकम्पे चाचलोपमः ननाद सुमहानादं सुमहानिव तोयदः
Verse 33
आनुपूर्व्येण वृत्तं  लाङ्गूलं लोमभिश्चितम् उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्
Verse 34
तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ददृशे गरुडेनेव ह्रियमाणो महोरगः
Verse 35
बाहू संस्तम्भयामास महापरिघसन्निभौ ससाद  कपिः कट्यां चरणौ सञ्चुकोच 
Verse 36
संहृत्य  भुजौ श्रीमांस्तथैव  शिरोधराम् तेजः सत्त्वं तथा वीर्यमाविवेश  वीर्यवान्
Verse 37
मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः रुरोध हृदये प्राणानाकाशमवलोकयन्
Verse 38
पद्भ्यां दृढमवस्थानं कृत्वा  कपिकुञ्जरः निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्
Verse 39
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम्
Verse 40
 हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् अनेनैव हि वेगेन गमिष्यामि सुरालयम्
Verse 41
यदि वा त्रिदिवे सीतां  द्रक्ष्याम्यकृतश्रमः बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्
Verse 42
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्
Verse 43
एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः उत्पपाताथ वेगेन वेगवानविचारयन् सुपर्णमिव चात्मानं मेने  कपिकुञ्जरः
Verse 44
एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः उत्पपाताथ वेगेन वेगवानविचारयन् सुपर्णमिव चात्मानं मेने  कपिकुञ्जरः
Verse 45
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः
Verse 46
 मत्तकोयष्टिमकान् पादपान् पुष्पशालिनः उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे
Verse 47
ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः
Verse 48
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्
Verse 49
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः
Verse 50
सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि भयादिव महेन्द्रस्य पर्वता वरुणालये
Verse 51
 नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः
Verse 52
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा
Verse 53
लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ताराचितमिवाकाशं प्रबभौ  महार्णवः
Verse 54
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः बभौ मेघ इवाकाशे विद्युद्गण विभूषितः
Verse 55
तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ताराभिरभिरामाभिरुदिताभिरिवाम्बरम्
Verse 56
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ
Verse 57
पिबन्निव बभौ चापि सोर्मिमालं महार्णवम् पिपासुरिव चाकाशं ददृशे  महाकपिः
Verse 58
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः नयने विप्रकाशेते पर्वतस्थाविवानलौ
Verse 59
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले चक्षुषी सम्प्राकाशेते चन्द्रसूर्याविवोदितौ
Verse 60
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम्
Verse 61
लाङ्गूलं  समाविद्धं प्लवमानस्य शोभते अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्
Verse 62
लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः व्यरोचत महाप्राज्ञः परिवेषीव भास्करः
Verse 63
स्फिग्देशेनाभिताम्रेण रराज  महाकपिः महता दारितेनेव गिरिर्गैरिकधातुना
Verse 64
तस्य वानरसिंहस्य प्लवमानस्य सागरम् कक्षान्तरगतो वायुर्जीमूत इव गर्जति
Verse 65
खे यथा निपतत्युल्का ह्युत्तरान्ताद्विनिःसृता दृश्यते सानुबन्धा  तथा  कपिकुञ्जरः
Verse 66
पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया
Verse 67
उपरिष्टाच्छरीरेण छायया चावगाढया सागरे मारुताविष्टा नौरिवासीत्तदा कपिः
Verse 68
यं यं देशं समुद्रस्य जगाम  महाकपिः   तस्योरुवेगेन सोन्माद इव लक्ष्यते
Verse 69
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् अभिघ्नंस्तु महावेगः पुप्लुवे  महाकपिः
Verse 70
कपिवातश्च बलवान् मेघवातश्च निःसृतः सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम्
Verse 71
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी
Verse 72
मेरुमन्दरसङ्काशानुद्धतान्  महार्णवे अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव
Verse 73
तस्य वेगसमुद्धूतं जलं सजलदं तदा अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम्
Verse 74
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्
Verse 75
प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे
Verse 76
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता छाया वानरसिंहस्य जले चारुतराभवत्
Verse 77
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी तस्य सा शुशुभे छाया वितता लवणाम्भसि
Verse 78
शुशुभे  महातेजा महाकायो महाकपिः वायुमार्गे निरालम्बे पक्षवानिव पर्वतः
Verse 79
येनासौ याति बलवान् वेगेन कपिकुञ्जरः तेन मार्गेण सहसा द्रोणीकृत इवार्णवः
Verse 80
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन् हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा
Verse 81
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि  कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे
Verse 82
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते
Verse 83
प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः
Verse 84
तताप  हि तं सूर्यः प्लवन्तं वानरोत्तमम् सिषेवे  तदा वायू रामकार्यार्थसिद्धये
Verse 85
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम्
Verse 86
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम्
Verse 87
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः
Verse 88
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमत: करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्
Verse 89
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति
Verse 90
तथा मया विधातव्यं विश्रमेत यथा कपिः शेषं  मयि विश्रान्तः सुखेनातिपतिष्यति
Verse 91
इति कृत्वा मतिं साध्वींसमुद्र श्छन्नमम्भसि हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्
Verse 92
त्वमिहासुरसंघानां पातालतलवासिनाम् देवराज्ञा गिरिश्रेष्ठ परिघः सन्निवेशितः
Verse 93
त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि
Verse 94
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम
Verse 95
 एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः
Verse 96
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव
Verse 97
कुरु साचिव्यमस्माकं  नः कार्यमतिक्रमेत् कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्
Verse 98
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः
Verse 99
चामीकरमहानाभ देवगन्धर्वसेवित हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति
Verse 100
काकुत्स्थस्यानृशंस्यं  मैथिल्याश्च विवासनम् श्रमं  प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि
Verse 101
हिरण्यनाभो मैनाको निशम्य लवणाम्भसः उत्पपात जलात्तूर्णं महाद्रुमलतायुतः
Verse 102
 सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः
Verse 103
 महात्मा मुहूर्तेन सर्वतः सलिलावृतः दर्शयामास शृङ्गाणि सागरेण नियोजितः आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः
Verse 104
 महात्मा मुहूर्तेन सर्वतः सलिलावृतः दर्शयामास शृङ्गाणि सागरेण नियोजितः आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः
Verse 105
तप्तजाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम्
Verse 106
जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः
Verse 107
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः
Verse 108
 तमुच्छ्र्रतमत्यर्थं महावेगो महाकपिः उरसा पातयामास जीमूतमिव मारुतः
Verse 109
 तथा पातितस्तेन कपिना पर्वतोत्तमः बुद्ध्वा तस्य कपेर्वेगं जहर्ष  ननन्द 
Verse 110
तमाकाशगतं वीरमाकाशे समुपस्थितः प्रीतो हृष्टमाना वाक्यमब्रवीत्पर्वतः कपिम् मानुषं धारयन् रूपमात्मनः शिखरे स्थितः
Verse 111
तमाकाशगतं वीरमाकाशे समुपस्थितः प्रीतो हृष्टमाना वाक्यमब्रवीत्पर्वतः कपिम् मानुषं धारयन् रूपमात्मनः शिखरे स्थितः
Verse 112
दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्
Verse 113
राघवस्य कुले जातैरुदधिः परिवर्धितः  त्वां रामहिते युक्तं प्रत्यर्चयति सागरः
Verse 114
कृते  प्रतिकर्तव्यमेष धर्मः सनातनः सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति
Verse 115
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति योजनानां शतं चापि कपिरेष समाप्लुतः
Verse 116
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति योजनानां शतं चापि कपिरेष समाप्लुतः
Verse 117
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि
Verse 118
अस्माकमपि सम्बन्ध: कपिमुख्य त्वयास्ति वै प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः
Verse 119
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर
Verse 120
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान्
Verse 121
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर
Verse 122
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्
Verse 123
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः
Verse 124
ततस्तेषु प्रयातेषु देवसङ्घा: महर्षिभिः भूतानि  भयं जग्मुस्तेषां पतनशङ्कया 5.1.124
Verse 125
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः
Verse 126
 मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना
Verse 127
अस्मिन्लवणतोये  प्रक्षिप्तः प्लवगोत्तम गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः
Verse 128
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः
Verse 129
अस्मिन्नेवंगते कार्ये सागरस्य ममैव  प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे
Verse 130
श्रमं मोक्षय पूजां  गृहाण कपिसत्तम प्रीतिं  बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात्
Verse 131
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्
Verse 132
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते प्रतिज्ञा  मया दत्ता  स्थातव्यमिहान्तरे
Verse 133
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव
Verse 134
 पर्वतसमुद्राभ्यां बहुमानादवेक्षितः पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः
Verse 135
अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे
Verse 136
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे
Verse 137
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः
Verse 138
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः
Verse 139
उवाच वचनं धीमान् परितोषात्सगद्गदम् सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः
Verse 140
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्
Verse 141
साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः क्रमतो योजनशतं निर्भयस्य भये सति
Verse 142
रामस्यैष हितायैव याति दाशरथेर्हरिः सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया
Verse 143
ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्
Verse 144
 वै दत्तवरः शैलो बभूवावस्थितस्तदा हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम्
Verse 145
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम्
Verse 146
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभः समम्
Verse 147
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभः समम्
Verse 148
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति
Verse 149
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः विकृतं  विरूपं  सर्वस्य  भयावहम् प्लवमानं हनूमन्तमावृत्येदमुवाच 
Verse 150
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः विकृतं  विरूपं  सर्वस्य  भयावहम् प्लवमानं हनूमन्तमावृत्येदमुवाच 
Verse 151
मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्
Verse 152
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत्
Verse 153
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
Verse 154
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः तस्य सीता हृता भार्या रावणेन यशस्विनी
Verse 155
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् कर्तुमर्हसि रामस्य साह्यं विषयवासिनि
Verse 156
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते
Verse 157
एवमुक्ता हनुमता सुरसा कामरूपिणी अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम
Verse 158
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् बलं जिज्ञासमाना वै नागमाता हनूमतः
Verse 159
प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम वर एष पुरा दत्तो मम धात्रेति सत्वरा व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः
Verse 160
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे
Verse 161
इत्युक्त्वा सुरसां क्रुद्धो धशयोजनमायता दशयोजनविस्तारो बभूव हनुमांस्तदा
Verse 162
तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् चकार सुरसा चास्यं विंशद्योजनमायतम्
Verse 163
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् बभूव हनुमावनीरः पञ्चाशद्योजनोच्छ्रितः
Verse 164
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् बभूव हनुमावनीरः पञ्चाशद्योजनोच्छ्रितः
Verse 165
चकार सुरसा वक्त्रं षष्टियोजनमायतम् तथैव हनुमावनीरः सप्ततीयोजनोच्छ्रितः
Verse 166
चकार सुरसा वक्त्रमशीतीयोजनायतम् हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः
Verse 167
चकार सुरसा वक्त्रं शतयोजनमायतम् तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः
Verse 168
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य  महाबलः अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्
Verse 169
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव
Verse 170
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्
Verse 171
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् समानयस्व वैदेहीं राघवेण महात्मना
Verse 172
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम्
Verse 173
 सागरमनाधृष्यमभ्येत्य वरुणालयम् जगामाकाशमाविश्य वेगेन गरुडोपमः
Verse 174
सेविते वारिधाराभिः पतगैश्च निषेविते चरिते कैशिकाचार्यैरैरावतनिषेविते सिंहकुञ्जरशार्दूलपतगोरगवाहनैः विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते वज्राशनिसमाघातैः पावकैरुपशोभिते कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृते वहता हव्यमत्यर्धं सेविते चित्रभानुना ग्रहनक्षत्रचन्द्रार्कतारागण विभूषिते महर्षिगणगन्धर्वनागयक्षसमाकुले विविक्ते विमले विश्वे विश्वावसुनिषेविते देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे विताने जीवलोकस्य वितते ब्रह्मनिर्मिते बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः जगाम वायुमार्गे तु गरुत्मानिव मारुतिः
Verse 175

Verse 176

Verse 177

Verse 178

Verse 179

Verse 180

Verse 181
प्रदृश्यमानः सर्वत्रः हनुमान्मारुतात्मजः भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट्
Verse 182
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी मनसा चिन्तयामास प्रवृद्धा कामरूपिणी
Verse 183
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता इदं हि मे महत्सत्त्वं चिरस्य वशमागतम्
Verse 184
इति सञ्चिन्त्य मनसा छायामस्य समाक्षिपत् छायायां गृह्यमाणायां चिन्तयामास वानरः
Verse 185
समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः प्रतिलोमेन वातेन महानौरिव सागरे
Verse 186
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ददर्श  महत्सत्त्वमुत्थितं लवणाम्भसि
Verse 187
तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् छायाग्राहि महावीर्यं तदिदं नात्र संशयः
Verse 188
 तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः व्यवर्धत महाकायः प्रावृषीव वलाहकः
Verse 189
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः वक्त्रं प्रसारयामास पातालान्तरसन्निभम्
Verse 190
घनराजीव गर्जन्ती वानरं समभिद्रवत्  ददर्श ततस्तस्या विवृतं सुमहन्मुखम् कायमात्रं  मेधावी मर्माणि  महाकपिः
Verse 191
घनराजीव गर्जन्ती वानरं समभिद्रवत्  ददर्श ततस्तस्या विवृतं सुमहन्मुखम् कायमात्रं  मेधावी मर्माणि  महाकपिः
Verse 192
 तस्या विवृते वक्त्रे वज्रसंहननः कपिः संक्षिप्य मुहुरात्मानं निष्पपात महाबलः
Verse 193
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा
Verse 194
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः उत्पपाताथ वेगेन मनः सम्पातविक्रमः
Verse 195
तां तु दृष्ट्वा  धृत्या  दाक्षिण्येन निपात्य   कपिप्रवरो वेगाद्ववृधे पुनरात्मवान्
Verse 196
हृतहृत्सा हनुमतापपात विधुराम्भसि तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्
Verse 197
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् साधयार्थमभिप्रेतमरिष्टं प्लवतां वर
Verse 198
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव धृतिर्दृष्टिर्मतिर्दाक्ष्यं सः कर्मसु  सीदति
Verse 199
 तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः जगामाकाशमाविश्य पन्नगाशनवत्कपिः
Verse 200
प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् योजनानां शतस्यान्ते वनराजिं ददर्श सः
Verse 201
ददर्श  पतन्नेव विविधद्रुमभूषितम् द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि 
0:000:00
Speed: