🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 1

Sarga 1

19 verses

Verse 1
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्
Verse 2
कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम् मनसापि यदन्येन  शक्यं धरणीतले
Verse 3
 हि तं परिपश्यामि यस्तरेत महार्णवम् अन्यत्र गरुडाद्वायोरन्यत्र  हनूमतः
Verse 4
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् प्रवष्ट स्सत्त्वमाश्रित्यश्वसन्को नाम निष्क्रमेत्
Verse 5
को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् यो वीर्यबलसम्पन्नो  समस्याद्धनूमतः
Verse 6
भृत्यकार्यं हनुमता सुग्रीवस्य कृतंमहत् स्वयं विधाय स्वबलं सदृशं विक्रमस्य 
Verse 7
यो हि भृत्यो नियुक्तस्सन्भर्त्रा कर्मणि दुष्करे कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम्
Verse 8
नियुक्तोय: परं कार्यं  कुर्यान्नृपतेः प्रियम् भृत्योऽभृत्यस्समर्थोऽपि तमाहुर्मध्यमं नरम्
Verse 9
नियुक्तो नृपतेः कार्यं  कुर्याद्यस्समाहितः भृत्यो युक्तस्समर्थश्च तमाहुः पुरुषाधमम्
Verse 10
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता  चात्मा लघुतां नीतस्सुग्रीवश्चापि तोषितः
Verse 11
अहं  रघुवंशश्च लक्ष्मणश्च महाबलः वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः
Verse 12
इदं तु मम दीनस्य मनो भूयः प्रकर्षति यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम्
Verse 13
एष सर्वस्वभूते परिष्वङ्गो हनूमतः मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः
Verse 14
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे हनूमन्तं कृतात्मानं कृतकार्यमुपागतम्
Verse 15
ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः
Verse 16
सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् सागरं तु समासाद्य पुनर्नष्टं मनो मम
Verse 17
कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः हरयो दक्षिणं पारं गमिष्यन्ति समागताः
Verse 18
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम समुद्रपारगमने हरीणां किमिहोत्तरम्
Verse 19
इत्युक्तवा शोकसम्भ्रान्तो राम श्शत्रुनिबर्हणः हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत्
0:000:00
Speed: