🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 119

Sarga 119

35 verses

Verse 1
एवमुक्तातुवैदेहिपरुषंरोमहर्षणम् राघवेणसरोषेणश्रुत्वाप्रव्यथिताऽभवत्
Verse 2
सातदश्रुतपूर्वंहिजनेमहतिमैथिली श्रुत्वाभर्तृर्वचोरूक्षंलज्जयावनताभवत्
Verse 3
प्रविशन्तीवगात्राणिस्वानिसाजनकात्मजा वाक्षरैस्स्सैःसशल्येवभृशमाश्रूण्यवर्तयत्
Verse 4
ततोबाष्पपरिक्लिन्नंप्रमार्जन्तीस्वमाननम् शनैर्गद्गदयावाचाभर्तारमिदमब्रवीत्
Verse 5
किंमामसदृशंवाक्यमीदृशंश्रोत्रदारुणम् रूक्षंश्रावयसेवीर प्राकृतःप्राकृतमिव
Verse 6
 तथास्मिमहाबाहो यथामामवगच्छसि प्रत्ययंगच्छमेस्वेनचारित्रेणैवतेशपे
Verse 7
पृथकस्त्रीणांप्रचारेणजातिंत्वंपरिशङ्कसे परित्यजैनांशङ्कांतुयदितेऽहंपरीक्षिता
Verse 8
यदहंगात्रसम्पर्शंगतास्मिविशवाप्रभो कामकारो  मेतत्रदैवंतत्रापराध्यति
Verse 9
मदधीनंतुयत्तन्मेहृदयंत्वयिवर्तते पराधीनेषुगात्रेषुकिंकरिष्याम्यनीश्वरी
Verse 10
सहसम्वृद्धभावेनसंसर्गेण  मानद यदितेऽहं  विज्ञाताहतातेनास्मिशाश्वतम्
Verse 11
प्रेषितस्तेमहावीरोहनुमानवलोककः लङ्कास्थाहंत्वयाराजन्किंतदा  विसर्जिता
Verse 12
प्रत्यक्षंवानरस्यास्यतद्वाक्यसमनन्तरम् त्वयासन्त्यक्तयावीरत्यक्तंस्याजजीवितंमया
Verse 13
 वृथातेश्रमोऽयंस्यात्संशयेन्यस्यजीवितम् सुहृज्जनपरिक्लेशो  चायंविपुलस्तव
Verse 14
त्वयातुनृपशार्दूलदोषमेवानुवर्तता लघुनेवमनुष्येणस्त्रीत्वमेवपुरस्कृतम्
Verse 15
अपदेशेनजनकादुत्पततिर्वसुथातलात् ममवृत्तं  वृत्तज्ञबहुते  पुरस्कृतम्
Verse 16
 प्रमाणीकृतंपाणिर्भाल्येममनिपीडितः ममभक्तिश्चशीलं  सर्वंतेपृष्ठतःकृतम्
Verse 17
इतिब्रुवन्तीरुदतीबाष्पगद्गगभाषिणी उवाचलक्ष्मणंसीतादीनंध्यानपरायणम्
Verse 18
चितांमेकुरुसौमित्रेव्यवनस्यास्यभेषजम् मिध्यापवादोपहतानाहंजीवितुमुत्सहे
Verse 19
अप्रीतेनगुणैर्भर्त्रात्यक्तायाजनसंसदि याक्षमामेगतिर्गन्तुंप्रवेक्ष्येहव्यवाहनम्
Verse 20
एवमुक्तस्तुवैदेह्यालक्ष्मणःपरवीरहा अमर्षवशमापन्नोराघवंसमुदैक्षत
Verse 21
 विज्ञायततश्छन्दंरामस्याकारसूचितम् चितांचकारसौमित्रिर्मतेरामस्यवीर्यवान्
Verse 22
नहिरामंतदाकश्चित्कालान्तकयमोपमम् अनुनेतुमथोवक्तुंद्रष्टुंवाप्यशकत्सुहृत्
Verse 23
अधोमुखंस्थितंरामंततःकृत्वाप्रदक्षिणम् उपावर्ततवैदेहीदीप्यमानंहुताशनम्
Verse 24
प्रणम्यदैवतेभ्यश्चब्राह्मणेभ्यश्चमैथिली बद्धाञ्जलिपुटाचेदमुवाचानगिसमीपतः
Verse 25
यथामेहृदयंनित्यंनापसर्पतिराघवात् तथालोकस्यसाक्षीमांसर्वतःपातुपावकः
Verse 26
यथामांशुद्धचरितांदुष्टांजानातिराघवः तथालोकस्यसाक्षीमांसर्वतःपातुपावकः
Verse 27
कर्मणामनसावाचायथानातिचराम्यहम् राघवंसर्वधर्मज्ञंतथामांपातुपावकः
Verse 28
आदित्योभगवान्वायुर्धिशश्चन्द्रस्तथैव  अहश्चापितथासन्ध्येरात्रिश्चपृथिवीतथआ यथान्येऽपिविजानन्तितथाचारित्रसंयुताम्
Verse 29
एवमुक्त्वातुवैदेहीपरिक्रम्यहुताशनम् विवेशज्वलनंदीप्तंनिःशङ्केनान्तरात्मना
Verse 30
नश्चसुमहांस्तत्रबालवृद्धसमाकुलः ददर्शमैथिलींदीप्तांप्रविशन्तींहुताशनम्
Verse 31
सातप्तनवहेमाभातप्तकाञ्चनभूषणा पपातज्वलनंदीप्तंसर्वलोकस्यसन्निधौ
Verse 32
ददृशुस्तांविशालाक्षींपतन्तींहव्यवाहनम् सीतांसर्वाणिरूपाणिरुक्मवेदिनिभांतदा
Verse 33
ददृशुस्तांमहाभागांप्रविशन्तींहुताशनम् सीतांकृत्स्नास्त्रयोलोकाःपुण्यामाज्याहुतीमिव
Verse 34
प्रचुक्रुशुःस्त्रियःसर्वास्तांदृष्टवाहव्यवाहवे पतन्तींसंस्कृतांमन्रन्स्सैर्वसोर्दारामिवाध्वरे
Verse 35
ददृशुस्तांत्रयोलोकादेवगन्धर्वदानवाः शस्तांपतन्तींनिरयेत्रिविवाद्धेवतामिव
0:000:00
Speed: