Book 6 • Chapter 125
Sarga 125
26 verses
Verse 1
उपस्थितंतुतंकृत्वापुष्पकंपुष्पभूषितम् अविदूरेस्थितोराममित्युवाचविभीषणः
Verse 2
स तुबद्धाञ्जलि: प्रह्वोविनीतोराक्षसेश्वरः अब्रवीत्त्वरयोपेतःकिंकरोमीतिराघवम्
Verse 3
तमब्रवीन्महातेजालक्ष्मणस्योपशृण्वतः विमृश्यराघवोवाक्यमिदंस्नेहपुरस्कृतम्
Verse 4
कृतप्रयत्नकर्माणःसर्वएववनेचराः रत्नैरर्थैश्चविविधैस्सम्पूज्यन्तांविभीषण
Verse 5
सहामीभिस्त्वयालङ्कानिर्जिताराक्षसेश्वर हृष्टैःप्राणभयंत्यक्त्वासङ्ग्रामेष्वनिवर्तिभिः
Verse 6
त इमेकृतकर्माणस्सर्वएववनौकसः धनरत्नप्रदानेनकर्मैषांसफलंकुरु
Verse 7
एवंसम्मानिताश्चेतेमानार्हमानदात्वया भविष्यन्तिकृतज्ञेननिर्वृताहरियूथपाः
Verse 8
त्यागिनंसङ्ग्रहीतारंसानुक्रोशंजितेन्द्रियम् सर्वेततःअवगच्छन्तिसम्बोधयामिते
Verse 9
हीनंरतिगुणैस्सर्वैरभिहन्तारमाहवे सेनात्यजतिसम्विग्नानृपतिंतंनरेश्वरा
Verse 10
एवमुक्तस्तुरामेणवानरांस्तान्विभीषणः रत्नार्थसंविभागेनसर्वानेवाभ्यपूजयत्
Verse 11
ततस्तान्पूजितान्दृष्टवारत्नार्थैर्हरियूथपान् आरुरोहतदारामस्तद्विमानमनुत्तमम्
Verse 12
अङ्केनादायवैदेहींलज्जमानांयशस्विनीम् लक्ष्मणेनसहभ्रात्राविक्रान्तेवधनुष्मता
Verse 13
अब्रवीत्सविमानस्थःपूजयन्सर्वावानरान् सुग्रीवं च महावीर्यंकाकुत्स्थसविभीषणम्
Verse 14
मित्रकार्यंकृतमिदंभवद्भिद्वानरर्षभाः अनुज्ञातामयासर्वेयथेष्टंप्रतिगच्छत
Verse 15
यत्तुकार्यंवयस्येनस्निग्धेन च हितेन च कृतंसुग्रीवतत्सर्वंभवताधर्मभीरुणा किष्किन्धांप्रतियाह्यावुस्वसैन्येनाभिसम्वृतः
Verse 16
स्वराज्येवसलङ्कायांमयादत्तेविभीषण न त्वांधर्षयितुंशक्तास्सेन्द्राअपिदिवौकसः
Verse 17
योध्यांप्रतियास्यामिराजधानींपितुर्मम अभ्यनुज्ञातुमिच्छामिसर्वानामन्त्रयामिवः
Verse 18
वमुक्तास्तुरामेणहरीन्द्राहरयस्तथा ऊचुःप्राञ्जलयस्सर्वेराक्षसश्चविभीषणः
Verse 19
अयोध्यांगन्तुमिच्छामःसर्वन्नयतुनोभवान् मुद्युक्ताविचरिष्यामोवनान्युपननानि च
Verse 20
दृष्टवात्वामभिषेकार्ध्रंकौसल्यामभिवाद्य च अचिरादगमिष्यामःस्वगृहान्नृपसत्तम
Verse 21
एवमुक्तस्सधर्मात्मावानरैस्सविभीषणैः अब्रवीद्वानरान्रामस्ससुग्रीवविभीषणान्
Verse 22
प्रिययतरंलब्दंयदहंससुहृज्जनः सर्वैर्भवद्भिःसहितःप्रीतिंलप्स्येपुरींगतः
Verse 23
क्षिप्रम् सुग्रीवविमानंवानरैस्सह त्वमप्यारोहसामात्योराक्षसेन्द्रविभीषण
Verse 24
ततः स पुष्पकंदिव्यंसुग्रीवस्सहवानरैः आरुरोहमुदायुक्तःसामात्यश्चविभीषणः
Verse 25
तेष्वारूढेषुसर्वेषुकौबेरंपरमासनम् राघवणाभ्यनुज्ञातमुत्पपातविहायसम्
Verse 26
गतेनविमानेनहंसयुक्तेनभास्वता प्रहृष्टश्चप्रतीतश्चबभौरामःकुबेरवत्
0:000:00
Speed: