🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 32

Sarga 32

44 verses

Verse 1
सासीतातच्छिरोदृष्टवातच्चकार्मुकमुत्तमम् सुग्रीवप्रतिसंपर्गमाख्यातंचहनूमता नयनेमुखवर्णंचभर्तुस्तत्सदृशंमुखम् केशान् केशान्तदेशंचतंचचूडामणिंशुभम् एतैस्सर्वेरभिज्ञानैरभिज्ञायसुदुःखिता निजगर्हेचकैकेयींक्रोशन्तीकुररीयथा
Verse 2
सासीतातच्छिरोदृष्टवातच्चकार्मुकमुत्तमम् सुग्रीवप्रतिसंपर्गमाख्यातंचहनूमता नयनेमुखवर्णंचभर्तुस्तत्सदृशंमुखम् केशान् केशान्तदेशंचतंचचूडामणिंशुभम् एतैस्सर्वेरभिज्ञानैरभिज्ञायसुदुःखिता निजगर्हेचकैकेयींक्रोशन्तीकुररीयथा
Verse 3
सासीतातच्छिरोदृष्टवातच्चकार्मुकमुत्तमम् सुग्रीवप्रतिसंपर्गमाख्यातंचहनूमता नयनेमुखवर्णंचभर्तुस्तत्सदृशंमुखम् केशान् केशान्तदेशंचतंचचूडामणिंशुभम् एतैस्सर्वेरभिज्ञानैरभिज्ञायसुदुःखिता निजगर्हेचकैकेयींक्रोशन्तीकुररीयथा
Verse 4
सकामाभवकैकेयीहतोऽयंकुलनन्दनः कुलमुत्सादितंसर्वंत्वयाकलहशीलया
Verse 5
आर्येणकिंतेकैकेयी कृतंरामेणविप्रियम् यन्मयाचीरवसनस्त्वयाप्रस्थापितोवनम्
Verse 6
एवमुक्त्वातुवैदेहीवेपमानातपस्विनी जगामजगतींबालाछिन्नातुकदळीयथा
Verse 7
सामुहूर्तात्समाश्वास्यप्रतिलभ्यचचेतनाम् तच्छिरस्समुपाघ्रायविललासायतेक्षणा
Verse 8
हाहताऽस्मिमहाबाहो वीरव्रतमनुव्रत इमांतेपश्चिमावस्थांगताऽस्मिविधवाकृता
Verse 9
प्रथमंमरणंनार्याभर्तुर्वैगुण्यमुच्यते सुवृत्त: स्साधुवृत्तायास्सम्वृत्तस्त्वंममाग्रतः
Verse 10
दुःखाद्दुःखंप्रपन्नायामग्नायाश्शोकसागरे योहिमामुद्यतनिस्त्रातुंसोऽपित्वंविनिपातितः
Verse 11
साश्वश्रूर्ममकौसल्यात्वयापुत्रेणराघव: वत्सेनेवयथाधेनुर्विवत्सावत्सलाकृता
Verse 12
आद्दिष्टंदीर्घमायुस्तेयैरचिन्त्यपराक्रम अनृतंवचनंतेषामल्पायुरपिराघव
Verse 13
अथवानश्यतिप्रज्ञाप्राज्ञस्यापिसतस्तव पचत्येनंयथाकालोभूतानांप्रभवोऽह्ययम्
Verse 14
अदृष्टंमृत्युमापन्नःकस्मात्त्वंनयशास्त्रवित् व्यसनानामुपायज्ञःकुशलोह्यसिवर्जने
Verse 15
तथात्वंसम्परिष्वज्यरौद्रयाऽतिनृशंसया काळरात्य्राममाच्छिद्यहृतःकमललोचन:
Verse 16
उपशेषेमहाबाहो: मांविहायतपस्विनीम् प्रियामिवसमालशिष्यपृथिवींपुरुषर्षभ
Verse 17
अर्चितंसततंयत्तद्गन्धमाल्यैर्मयातव इदंतेमप्रतियंवीरधनुःकाञ्चानभूषणम्
Verse 18
पित्रादशरथेनत्वंश्वशुरेणममानघ: सर्वैश्चपितृभिस्सार्थंनूनंस्वर्गेसमागतः
Verse 19
दिविनक्षत्रभूतस्त्वंमहात्कर्मकृतप्रियम् पुण्यंराजर्षिवंशंत्वमात्मनस्समुपेक्षसे
Verse 20
किंमांनप्रेक्षसेराजन् किंमांनप्रतिभाषसे बालांबाल्येनसम्प्राप्तांभार्यांमांसहचारिणीम्
Verse 21
संश्रुतंगृह्णतापाणिंचरिष्यामीतियत्त्वया स्मरतन्ममकाकुत्स्थनयमामपिदुःखिताम्
Verse 22
कस्मान्मामपहायत्वंगतोगतिमतांवर अस्माल्लोकादमुंलोकंत्यक्त्वामामपिदुःखिताम्
Verse 23
कल्याणैरुचितंयत्तत्परिष्वक्तंमयैवतु क्रव्यादैस्तच्छरीरंतेमानंविपरिकृष्यते
Verse 24
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः अग्निहोत्रेणसंस्कारंकेनत्वंनतुलप्स्यसे
Verse 25
प्रव्रज्यामुपपन्नानांत्रयाणामेकमागतम् परिप्रक्ष्यतिकौसल्यालक्ष्मणंशोकलालसा
Verse 26
सतस्याःपरिपृच्छन्त्यावधंमित्रबलस्यते तवचाख्यास्यतेनूनंनिशायांराक्षसैर्वधम्
Verse 27
सात्वांसुप्तंहतंश्रुत्वामांचरक्षोगृहंगताम् हृदयेनविदीर्णेननभविष्यतिराघव
Verse 28
ममहेतोरनार्यायाह्यनर्हःपार्थिवात्म: रामस्सागरमुततीर्यसत्त्ववान् गोष्पदेहतः
Verse 29
अहंदाशरथेनोढामोहात्स्वकुलपांसनी आर्यपुत्रस्यरामस्यभार्यामृत्युरजायत
Verse 30
नूनमन्यांमयाजातिंवारितंदानमुत्तमम् याहमद्येहशोचामिभार्यासर्वतिथेरपि
Verse 31
साधुपातयमांक्षिप्रंरामस्योपरिरावण समानयपतिंपन्त्याकुरुकल्याणमुत्तमम्
Verse 32
शिरसामेशिरश्चास्यकायंकायेनयोजय रावणानुगमिष्यामिगतिंभर्तुर्महात्मनः
Verse 33
इतिसदुःखसन्तप्ताविललापायतेक्षणा भर्तुश्शिरोधनुस्तत्रसमीक्ष्यचपुनःपुनः
Verse 34
एवंलालप्यमानायांसीतायांतत्रराक्षसः अभिचक्रामभर्तारमनीकस्थःकृताञ्जलिः
Verse 35
विजयस्वार्यपुत्रेतिसोऽभिवाद्यप्रसाद्यच न्यवेदयदनुप्राप्तंप्रहस्तंवाहिनीपतिम्
Verse 36
अमात्यैस्सहितस्सर्वैःप्रहस्तस्समुपस्थितः तेनदर्शनकामेनवयंप्रस्थापिताःप्रभो
Verse 37
नूनमस्तिमहाराज राजभावात्क्षमान्वितं किञ्चिदात्ययिकंकार्यंतेषांत्वंदर्शनंकुरु
Verse 38
एतच्छ्रुत्वादशग्रीवोराक्षसप्रतिवेदितम् अशोकन्विकांत्यक्त्वामन्त्रिणांदर्शनंययौ
Verse 39
सतुसर्वंसमर्थ्यैवमन्त्रिभिःकृत्यमात्मनः सभांप्रविश्यविदधेविदित्वारामविक्रमम्
Verse 40
अन्तर्थानंतुतच्छीर्षंतच्चकार्मुकमुत्तमम् जगामरावणस्यैवनिर्याणसमनन्तरम्
Verse 41
राक्षसेन्द्रस्तुतैस्सार्धंमन्त्रिभिर्भीमविक्रमैः समर्थयामासतदारामकार्यविनिश्चयम्
Verse 42
अविदूरस्थितान्सर्वान्बलाध्यक्षाहनितैषिणः अब्रवीत्कालसदृशोरावणोराक्षसाधिपः
Verse 43
शीघ्रंभेरीनिनादेनस्फुटंकोणाहतेनमे समानयध्वंसैन्यानिवक्तव्यंचनकारणम्
Verse 44
ततस्तथेतिप्रतिगृह्यतद्वचोबलाधिपास्तेमहदात्मनोबलम् समानयंश्चैवसमागमंचतेन्यवेदयन्भर्तरियुद्धकाङ्क्षिणि
0:000:00
Speed: