Book 6 • Chapter 34
Sarga 34
28 verses
Verse 1
अथतांजातन्तापांतेनवाक्येनमोहिताम् सरमाह्लादयामासमहींघौरीमिवाम्भसा
Verse 2
ततस्तस्याहितंसख्याश्चिकीर्षन्तीसखीवचः उवाचकालेकालज्ञास्मितपूर्वाभिभाषिणी
Verse 3
उत्सहेयमहंगत्वात्वद्वाक्यमसितेक्षणे: निवेद्यकुशलंरामेप्रतिच्छन्नानिवर्तितुम्
Verse 4
नहिमेक्रममाणायानिरालम्बेविहायसि समर्थोगतिमन्वेतुंपवनोगरुडोऽपिवा
Verse 5
एवंब्रुवाणांतांसीतासरमांपुनरब्रवीत् मधुरंश्लक्क्षणयावाचापूर्वशोकाभिपन्नया
Verse 6
समर्थागगनंगन्तुमपिवात्वंरसातलम् अवगच्छाम्यकर्तव्यंकर्तव्यंतेमदन्तरे
Verse 7
मत्प्रियंयदिकर्तव्यंयदिबुद्धि: स्थिरातव ज्ञातुमिच्छामितंगत्वाकिंकरोतीतिरावणः
Verse 8
सहिमायाबलःक्रूरोरावणश्शत्रुरावणः मांमोहयतिदुष्टात्मापीतामात्रेववारुणी
Verse 9
तर्जापयतिमांनित्यंभर्त्सापयतिचासकृत् राक्षसीभिस्सुघूराभिर्यामांरक्षन्तिनित्यशः
Verse 10
उद्विग्नाशङ्किताचास्मिनस्वस्थंचमनोमम तद्भयाच्चाहमुद्विग्नाअशोकवनिकांगता
Verse 11
यदिनामकथातस्यनिश्चितंवापियद्भवेत् निवेदयेथास्सर्वंतत्परोमेस्यादमनुग्रहः
Verse 12
सात्वेवंब्रुवतींसीतांसरमावल्गुभाषिणी उवाचवदनंतस्यास्स्पृशन्तीबाष्पविक्लबम्
Verse 13
एषतेयद्यभिप्रायस्तदागच्छामिजानकी: गृह्यशत्रोरभिप्रायमुपावृत्तांचपश्यमाम्
Verse 14
एवमुक्त्वाततोगत्वासमीपंतस्यरक्षसः शुश्रावकथितंतस्यरावणस्यसमन्त्रिणः
Verse 15
साश्रुत्वानिश्चयंतस्यनिश्चयज्ञादुरात्मनः पुनरेवागमत्क्षिप्रमशोकवनिकांशुभाम्
Verse 16
साप्रविष्टाततस्तत्रददर्शजनकात्मजाम् प्रतीक्षमाणांस्वामेवभ्रष्टपद्मामिवश्रियम्
Verse 17
तांतुसीतापुनःप्राप्तांसरमांवल्गुभाषिणीम् परिष्वज्यचसुस्निग्धंददौचस्वयमासनम्
Verse 18
इहासीनासुखंसर्वमाख्याहिममतत्त्वतः क्रूरस्यनिश्चयंतस्यरावणस्यदुरात्मनः
Verse 19
एवमुक्तातुसरमासीतयावेपमानया कथितंसर्वमाचष्टेरावणस्यसमन्त्रिणः
Verse 20
जनन्याराक्षसेन्द्रोवैत्वन्मोक्षार्थंबृहद्वचः अविद्धेनचवैदेहिमन्त्रिवृद्धेनबोधितः
Verse 21
दीयतामभिसत्कृत्यमनुजेन्द्रायमैथिली निदर्शनंतेपर्याप्तंजनस्थानेयदद्भुतम्
Verse 22
लङ्घनंचसमुद्रस्यदर्शनंचहनूमतः वधंचरक्षसांयुद्धेकःकुर्यान्मानुषोभुवि
Verse 23
एवंसमन्त्रिवृद्धैश्चाविद्धेनबहुभाषितः नत्वामुत्पनिहतेमोक्तुमर्थमर्थपरोयथा
Verse 24
नोत्सहत्यमृतोमोक्तुंयुद्धेत्वामितिमैथिली: सामात्यस्यनृशंसस्यनिश्चयोह्येषवर्तते
Verse 25
तदेषासुस्थिराबुद्धिर्मृत्युलोभादुपस्थिता भयान्नशक्तस्त्वांमोक्तुमनिरस्तस्संयुगे रक्षसानांचसर्वेषामात्मनश्चवधेनहि
Verse 26
निहत्यरावणंसङ् ख्येसर्वथानिशितैश्शरैः प्रतिनेष्यतिरामस्त्वामयोध्यामसितेक्षणे:
Verse 27
एतस्मिन्नन्तरेशब्दोभेरीशङ्खसमाकुलः श्रुतोवानरसैन्यानांकम्पयन् धरणीतलम्
Verse 28
श्रुत्वातुतद्वानरसैन्यशब्दंलङ्कागताराक्षसराजभृत्याः नष्टौजसोदैन्यरीतचेष्टाःश्रेयोनपश्यन्तिनृपस्यदोषैः
0:000:00
Speed: