🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 36

Sarga 36

22 verses

Verse 1
तत्तुमाल्यवतोवाक्यंहितमुक्तंदशाननः नमर्षयतिदुष्टात्माकालस्यवशमागतः
Verse 2
नबद् ध्वाभ्रुकुटींवक्त्रेक्रोधस्यवशमागतः अमर्षात्परिवृत्ताक्षोमाल्यवन्तमथाब्रवीत्
Verse 3
हितबुध्यायदहितंवचःपरुषमुच्यते परपक्षंप्रनिश्यैवनैतच्च्रोत्रगतंमम
Verse 4
मानुषंकृपणंराममेकंशाखामृगाश्रयम् समर्थंमन्यसेकेनत्यक्तंपित्रावनालयम्
Verse 5
रक्षसामीश्वरंमांचदेवानांचभयङ्करम् हीनंमांमन्यसेकेनह्यहीनंसर्वविक्रमैः
Verse 6
वीरद्वेषेणवाशङ्केपक्षपातेनवारिपोः त्वयाहंपरुषाण्युक्तःपरप्रोत्साहनेनवा
Verse 7
प्रभवन्तंपदस्थंहिपरुषंकोऽभिभाषते पण्डितश्शास्त्रतत्त्वज्ञोविनाप्रोत्साहनाद्रिपोः
Verse 8
आनीयचवनासतीतांपद्महीनामिवश्रियम् किमर्थंप्रतिदास्यामिराघवस्यभयादहम्
Verse 9
वृतंवानरकोटीभिस्ससुग्रीवंसलक्ष्मणम् पश्यकैश्चिदहोभिस्त्वंराघवंनिहतंमया
Verse 10
द्वन्द्वेयस्यनतिष्ठन्तिदैवतान्यपिसंयुगे सकस्माद्रावणोयुद्धेभयमाहारयिष्यति
Verse 11
द्विधाभज्येयमप्येवंननमेयंतुकस्यचित् एषमेसहजोदोषस्स्वभावोदुरतिक्रमः
Verse 12
यदितावत्समुद्रेतुसेतुर्बद्धोयदृच्छया रामेणविस्मयःकोऽत्रयेवमेभयमागतम्
Verse 13
सतुतीर्त्वार्णवंरामस्सहवानरसेनया प्रतिजानामितेसत्यंनजीवन्प्रतियास्यति
Verse 14
एवंब्रुवाणंसंरब्धंरुष्टंविज्ञायरावणम् व्रीळितोमाल्यवान्वाक्यंनोत्तरंप्रत्यपद्यत
Verse 15
जयाशिषाचराजानंवर्धयित्वायथोचितम् माल्यवानभ्यनुज्ञातोजगामस्वंनिवेशनम्
Verse 16
रावणस्तुसहामात्योमन्त्रयित्वाविमृश्यच लङ्कायामतुलांगुप्तिंकारयामासराक्षसः
Verse 17
व्यादिदेशसपूर्वस्यांप्रहस्तंद्वारिराक्षसम् दक्षिणस्यांमहावीर्यौमहापार्श्वमहादरौ पश्चिमायामथोद्वारिपुत्रमिन्द्रजितंतदा व्यादिदेशमयामायंबहूभीराक्षसैर्भहुभिर्वृतम्
Verse 18
व्यादिदेशसपूर्वस्यांप्रहस्तंद्वारिराक्षसम् दक्षिणस्यांमहावीर्यौमहापार्श्वमहादरौ पश्चिमायामथोद्वारिपुत्रमिन्द्रजितंतदा व्यादिदेशमयामायंबहूभीराक्षसैर्भहुभिर्वृतम्
Verse 19
उतरस्यांपुरद्वारिव्यादिश्यशुकसारणौ स्वयंचात्रगमिष्यामिमन्त्रिणस्तानुवाचह
Verse 20
राक्षसांतुविरूपाक्षंमहावीर्यपराक्रमम् मध्यमेऽस्थापयद्गुल्मेबहुभिस्सहराक्षसैः
Verse 21
एवंविधानंलङ्कायांकृत्वाराक्षसपुङ्गवः कृतकृत्यमिवात्मानंमन्यतेकालचोदितः
Verse 22
विसर्जयामासततस्समन्त्रिणोविधानमाज्ञाप्यपुरस्यपुष्कलम् जयाशिषामन्त्रिगणेनपूजितोविवेशचाऽन्तःपुरमृद्धिमन्महत्
0:000:00
Speed: