🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 39

Sarga 39

29 verses

Verse 1
तांरात्रिमुषितास्तत्रसुवेलेहरिपुङ्गवाः लङ्कायांददृशुर्वीरावनान्युपवनानिच
Verse 2
समसौम्यानिरम्याणिविशालान्यायतानिच दृष्टिरम्याणितेदृष्टवाबभूवुर्जातविस्मयाः
Verse 3
चम्पकाशोकपुन्नागसालतालसमाकुला तमालवनसञ्छन्नानागमालासमावृता हिन्तालैरर्जुनैर्नीपैस्सप्तपर्णैश्चपुष्पितैः तिलकैःकर्णिकारैश्चपाटलैश्चसमन्ततः शुशुभेपुष्पिताग्रैश्चलतापरिगतैर्द्रुमैः लङ्काबहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती विचित्रकुसुमोपेतैरक्तकोमलपल्लवैः शाद्वलैश्चतथानीपैश्चित्राभिर्वनराजिभिः
Verse 4

Verse 5

Verse 6

Verse 7
गन्धाढ्यान्यभिरम्याणिपुष्पाणिचफलानिच धारयन्त्यगमास्तत्रभूषणानीवमानवाः
Verse 8
तच्चैत्ररथसङ्काशंमनोज्ञंनन्दनोपमम् वनंसर्वरर्तुकंरम्यंशुशुभेषटपदायुतम्
Verse 9
नत्यूहकोयष्टिमकैर्नृत्यमानैश्चबर्हिभि रुतंपरभृतानांचशुश्रुवुर्वन्निर्झरे
Verse 10
नित्यमत्तविहङ्गानिभ्रमराचरितानिच कोकिलाकुलषण्डानिविहगाभिरुतानिच भृङ्गराजाभिगीतानिभ्रमरैस्सेवितानिच कोणालकविघुष्टानिसारसाभिरुतानिच विविशुस्तेततस्तानिवनान्युपवनानिच हृष्टाःप्रमुदितावीराहरयःकामरूपिणः
Verse 11

Verse 12

Verse 13
तेषांप्रविशतांतत्रवानराणांमहौजसाम् पुष्पसंसर्गसुरभिर्ववौघ्राणसुखोऽनिलः
Verse 14
अन्येतुहरिवीराणांयूथान्निष्क्रम्ययूथपाः सुग्रीवेणाभ्यनुज्ञातालङ्कांजग्मुःपताकिनीम्
Verse 15
वित्रासयन्तोविहगांस्त्रासयन्तोमृगद्विपान् कम्पयन्तश्चतांलङ्कांनादैस्तेनदतांवराः
Verse 16
कुर्वन्तस्तेमहावेगामहींचरणपीडिताम् रजश्चसहसैवोर्थ्वंजगामचरणोत्थितम्
Verse 17
ऋक्षास्सिंहावराहाश्चमहिषावारणामृगाः तेनशब्देनवित्रस्ताजग्मुर्भीतादिशोदश
Verse 18
शिखरंतत्त्रिकूटस्यप्रांशुचैकंदिविस्पृशम् समन्तात्पुष्पसंञ्छन्नंमहारजतसन्निभम् शतयोजनविस्तीर्णंविमलंचारुदर्शनम् श्लक्ष्णंश्रीमन्महच्छैवदुष्प्रापंशकुनैरपि मनसाऽपिदुरारोहंकिंपुनःकर्मणाजनैः
Verse 19

Verse 20
निविष्टातत्रशिखरेलङ्कारावणपालिता शतयोजनविस्तीर्णात्रिंशद्योजनमायता
Verse 21
सापुरीगोपुरैरुच्चैःपाण्डुराम्बुदसन्निभैः काञ्चनेनचशालेनराजतेनचशोभते
Verse 22
प्रासादैश्चविमानैश्चलङ्कापरमभूषिता घनैरिवाऽतपापायेमध्यमंवैष्णवंपदम्
Verse 23
यस्यांस्तम्भसहस्रेणप्रासादस्समलङ्कृतः कैलासशिखराकारोदृश्यतेखमिवोललिखन् चैत्यस्सराक्षसेन्द्रस्यबभूवपुरभूषणम् शतेनरक्षसांनित्यंयस्समग्रेणरक्ष्यते
Verse 24

Verse 25
मनोज्ञांकाननवतींपर्वतैरुपशोभिताम् नानाधातुविचित्रैश्चउद्यानैरुपशोभिताम् नानाविहङ्गासङ्घुष्टांनानामृगनिषेविताम् नानाकुसुमसञ्छन्नांनानाराक्षससेविताम् तांसमृद्धांसमृद्धार्धांलक्ष्मीनान्लक्ष्मणाग्रजः रावणस्यपुरींरामोददर्शसहवानरैः
Verse 26

Verse 27

Verse 28
तांमहागृहसम्बाधांदृष्टवालक्ष्मणपूर्वजः नगरीममरप्रख्योविस्मयंप्राप्यवीर्यवान्
Verse 29
तांरत्नपूर्णांबहुसंविधानांप्रासादमालाभिरलङ्कृतांच पुरींमहायन्त्रकवाटमुख्यांददर्शरामोमहताबलेन
0:000:00
Speed: