Book 6 • Chapter 45
Sarga 45
28 verses
Verse 1
सतस्यगतिमन्विच्छन्राजपुत्रःप्रतापवान् दिदेशातिबलोरामोदशवानरयूथपान्
Verse 2
द्वौसुषेणस्यदायादौनीलंचप्लवगर्षपम् अङ्गदंवालिपुत्रंचशरभंचतरस्विनम् विनतंजाम्बवन्तंचसानुप्रस्थंमहाबलम् ऋषभंचर्षभस्कन्थमादिदेशपरन्तपः
Verse 3
द्वौसुषेणस्यदायादौनीलंचप्लवगर्षपम् अङ्गदंवालिपुत्रंचशरभंचतरस्विनम् विनतंजाम्बवन्तंचसानुप्रस्थंमहाबलम् ऋषभंचर्षभस्कन्थमादिदेशपरन्तपः
Verse 4
तेसम्प्रहृष्टाहरयोभीमानुद्यम्यपादपान् आकाशंविविशुस्सर्वेमार्गमाणादिशोदशः
Verse 5
तेषांवेगवतांवेगमिषुभिर्वेगवत्तरैः अस्त्रवित्परमास्तैरैस्तुवारयामासरावणिः
Verse 6
तंभीममार्गमाणादिशोदशःवेगाहरयोनाराचैःक्षतविग्रहाः अन्धकारेनददृशुर्मेघैस्सूर्यमिवावृतम्
Verse 7
रामलक्ष्मणयोरेवसर्वदेहभिदश्शरान् भृशमावेशयामासरावणिस्समितिञ्जयः
Verse 8
निरन्तरशीरीरौतुतावुभौरामलक्ष्मणौ क्रुद्धेनेन्द्रजितावीरौपन्नगैश्शरतांगतैः
Verse 9
तयोःक्षतजमार्गेणसुस्रावरुधिरंबहु तावुभौचप्रकाशेतेपुष्पिताविवकिंशुकौ
Verse 10
ततःपर्यन्तरक्ताक्षोभिन्नाञ्जनचयोपमः रावणिर्भ्रातरौवाक्यमन्तर्धानगतोऽब्रवीत्
Verse 11
युध्यमानमनालक्षयंशक्रोऽपित्रिदशेश्वरः द्रष्टुमासादितुंवापिनशक्तःकिंपुनर्युवाम्
Verse 12
प्रावृताविषुजालेनराघवौकङ्कपत्रिणा एषरोषपरीतात्मानयामियमसादनम्
Verse 13
एवमुक्त्वातुधर्मज्ञौभ्रातरौरामलक्ष्मणौ निर्बिभेदशितैर्बाणैःप्रजहर्षननादच
Verse 14
भिन्नाञ्जनचयश्यामोविष्फार्यविपुलंधनुः भूयोभूयश्शरान्घोरान् विससर्जमहामृथे
Verse 15
ततोमर्मसुमर्मज्ञोमज्जयननिशितान् शरान् रामलक्ष्मणयोर्वीरोननदाचमुहुर्मुहुः
Verse 16
बद्धौतुशरशब्देनतावुभौरणमूर्धनि निमेषान्तरमात्रेणनशेकतुदीक्षितुम्
Verse 17
ततोविभिन्नसर्वाङ्गौशरशल्याचितावुभौ ध्वजाविवमहेन्द्रस्यरज्जुमुक्तौप्रकम्पितौ तौसम्प्रचलितौवीरौमर्मभेदेनकर्शितौ निपेततुर्महेष्वासौजगत्यांजगतीपती
Verse 18
ततोविभिन्नसर्वाङ्गौशरशल्याचितावुभौ ध्वजाविवमहेन्द्रस्यरज्जुमुक्तौप्रकम्पितौ तौसम्प्रचलितौवीरौमर्मभेदेनकर्शितौ निपेततुर्महेष्वासौजगत्यांजगतीपती
Verse 19
तौवीरशयनेवीरौशयानौरुधिरोक्षितौ शरवेष्टितसर्वाङ्गैवार्तौपरमपीडितौ
Verse 20
नह्यविद्धंतयोर्गात्रेबभूवाङ्गुळमन्तरम् नानिर्भिन्नंनचास्तब्दमाकराग्रादजिह्मगैः
Verse 21
तौतुक्रूरेणनिहतौरक्षसाकामरूपिणा असृक्सुस्रुवतुस्तीव्रंजलंप्रस्रवणाविव
Verse 22
पपातप्रथमंरामोविद्धोमर्मसुमार्गणैः क्रोधादिन्द्रजितायेनपुराशक्रोविनिर्जितः
Verse 23
रुक्मपुङ्खैःप्रसन्नाग्रैरधोगतिभिराशुगैः नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि विव्याधवत्सदन्तैश्चसिंहदंष्ट्रैःक्षुरैस्तथा
Verse 24
सवीरशयनेशिश्येविज्यमादायकार्मुकम् भिन्नमुष्टिपरीणाहंत्रिणतंरुक्मभूषितम्
Verse 25
बाणपातान्तरेरामंपतितंपुरुषर्षभम् सतत्रलक्ष्मणोदृष्टवानिराशोजीवितेऽभवत्
Verse 26
रामंकमलपत्राक्षंशरबन्धपरिक्षतम् शुशोचभ्रातरंदृष्टवापतितंधरणीतले
Verse 27
हरयश्चापितंदृष्टवासन्तापंपरमंगताः शोकार्ताश्चुक्रशुर्घोरमश्रुपूरितलोचनाः
Verse 28
बद्धौतुवीरौपतितौशयानौतेवानरास्सम्परिवार्यतस्थुः समागतावायुसुतप्रमुख्याविषादमार्ताःपरमंचजग्मुः
0:000:00
Speed: