Book 6 • Chapter 63
Sarga 63
57 verses
Verse 1
तस्यराक्षसराजस्यनिशम्यपरिदेवितम् कुम्भकर्णोबभाषेदंवचनंप्रजहास च
Verse 2
दृष्टोदोषोहियोऽस्माभिःपुरामन्त्रन्वििर्णये हितेष्वनभियुक्तेनसोऽयमासादितस्त्वया
Verse 3
शीघ्रंखल्वभ्युपेतंत्वांफलंपापस्यकर्मणः निरयेष्वेवपतनंयथादुष्कृतकर्मणः
Verse 4
प्रथमंवैमहाराजकृत्यमेतदचिन्तितम् केवलंवीर्यदर्पेणनानुबन्धोविचिन्तितः
Verse 5
यःपश्चातूर्वकार्याणिकुर्यादैश्वर्यमास्थितः पूर्वंचोत्तरकार्याणि न स वेदनयानया
Verse 6
देशकालविहीनानिकर्माणिविपरीतवत् क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव
Verse 7
त्रयाणांपञ्चधायोगंकर्मणांयःप्रपश्यति सचिवैस्समयंकृत्वा स सभ्येवर्ततेपथि
Verse 8
यथागमं च योराजासमयंविचिकीर्षति बुध्यतेसचिवान्बध्यासुहृदश्चानुपश्यति
Verse 9
धर्ममर्थं च कामं च सर्वान्वारक्षसांपते भजतेपुरुषःकालेत्रीणिद्वन्द्वानिवापुनः
Verse 10
त्रिषुचैतेषुयच्छ्रेष्ठंश्रुत्वातन्नावबुध्यते राजावाराजमात्रोवाव्यर्थंतस्यबहुश्रुतम्
Verse 11
उपप्रदानंसान्त्वं च भेदंकाले च विक्रमम् योगं च रक्षसांश्रेष्ठतावुभौ च नयानयौ कालेधर्मार्थकामान्यस्सम्मन्त्ऱ्यसचिवैःसह निषेवेतात्मवान्लोके न स व्यसनमाप्नुयात्
Verse 12
उपप्रदानंसान्त्वं च भेदंकाले च विक्रमम् योगं च रक्षसांश्रेष्ठतावुभौ च नयानयौ कालेधर्मार्थकामान्यस्सम्मन्त्ऱ्यसचिवैःसह निषेवेतात्मवान्लोके न स व्यसनमाप्नुयात्
Verse 13
हितानुबन्धमालोच्यकार्यात्कार्यमिहात्मनः राजासहार्थतत्त्वज्ञैस्सचिवैर्बुस्सहिजीवति
Verse 14
अनभिज्ञायशास्त्रार्थान् पुरुषाःपशुबुद्धयः प्रागल्भ्याद्वक्तुमिच्छन्तिमन्त्रेष्वभ्यन्तरीकृताः
Verse 15
अशास्त्रविदुषांतेषां न कार्यमभिहितंवचः अर्थशास्त्रानभिज्ञानांविपुलांश्रियमिच्छताम्
Verse 16
अहितं च हिताकारंधार्ष्ट्याज्जल्पन्तियेनराः अवेक्ष्यमन्त्रबाह्यास्तेकर्तव्याःकृत्यदूषणा:
Verse 17
विनाशयन्तोभर्तारंसहिताश्शत्रुभिर्बुधैः विपरीतानिकृत्यानिकारयन्तीहमन्त्रिणः
Verse 18
तान्भर्तामित्रसङ्काशानमित्रान्मन्त्रनिर्णये व्यवहारेणजानीयात्सचिवानुपसम्हितान्
Verse 19
चपलस्येहकृत्यानिसहसानुप्रधावतः छिद्रमन्येप्रपद्यन्तेक्रौञ्चस्य ख मिवद्विजाः
Verse 20
योहिशत्रुमवज्ञायनात्मानमभिरक्षति अवाप्नोतिहिसोऽनर्थान् स्थानाच्चव्यवरोप्यते
Verse 21
यदुक्तमिहतेपूर्वंक्रियतामनुजेन च तदेवनोहितंवाक्यंयदिच्छसि च तत्कुरु
Verse 22
तत्तुश्रुत्वादशग्रीवःकुम्भकर्णस्यभाषितम् भ्रुकुटिंचैवसञ्चक्रेक्रुद्धश्चैनमभाषत
Verse 23
मान्योगुरुवारिचार्यःकिमांत्वमनुशाससि किमेवंवाक्छ्रमंकृत्वाकालेयुक्तंविधीयताम्
Verse 24
विभ्रमाच्चित्तमोहाद्वाबलवीर्याश्रयेणवा नाभिपन्नमिदानींयद्व्यर्थातस्यपुनःकथाः
Verse 25
अस्मिन्कालेतुयद्युक्तंतदिदानींविधीयताम् गतंतुनानुशोचन्तिगतंतुगतमेवहि
Verse 26
ममापनयजंदोषंविक्रमेणसमीकुरु यदिखल्वस्तिमेस्नेहोविक्रमंवाऽवगच्छसि यदिवकार्यंमेतत्तेहृदिकार्यतमंमतम्
Verse 27
स सुहृद्योविपन्नार्थंदीनमभ्यवपद्यते स बन्धुर्योऽपनीतेषुसाहाय्यायोपकल्पते
Verse 28
तमथैवंब्रुवाणंतुवचनंधीरदारुणम् रुष्टोऽयमितिविज्ञायशनैश्श्लक्षणमुवाच ह
Verse 29
अतीवहिसमालक्ष्यभ्रातरंक्षुभितेन्द्रियम् कुम्भकर्णश्शनैर्वाक्यंबभाषेपरिसान्त्वयन्
Verse 30
शृणुराजन्नवहितोममवाक्यमरिन्दम अलंराक्षसराजेन्द्र सन्तापमुपपद्यते रोषं च सम्परित्यज्यस्वस्थोभवितुमर्हसि
Verse 31
शृणुराजन्नवहितोममवाक्यमरिन्दम अलंराक्षसराजेन्द्र सन्तापमुपपद्यते रोषं च सम्परित्यज्यस्वस्थोभवितुमर्हसि
Verse 32
नैतन्मनसिकर्तव्यंमयिजीवतिपार्थिव तमहंनाशयिष्यामियत्कृतेपरितप्यते
Verse 33
अवश्यंतुहितंवाच्यंसर्वावस्थांतवमया बन्धुभावादभिहितंभ्रातृस्नेहाच्छपार्थिव
Verse 34
सदृशंयत्तुकालेऽस्मिन् कर्तुंस्निग्धेनबन्धुना शत्रूणांकदनंपश्यक्रियमाणंमयारणे
Verse 35
अद्यपश्यमहाबाहो मयासमरमूर्धनि हतेरामेसहभ्रात्राद्रवन्तींहरिवाहिनीम्
Verse 36
अद्यरामस्यतद्दृष्टवामयानीतंरणाच्छिरः सुखीभवमहाबाहो सीताभवतुदुःखिता
Verse 37
अद्यरामस्यपश्यन्तुनिधनंसुमहत्प्रियम् लङ्कायांराक्षसाःसर्वेयेतेनिहतबान्धवाः
Verse 38
अद्यशोकपरीतानांस्वबन्धुवधकारणात् शत्रोर्युधिविनाशेनकरोम्यस्रप्रमार्जनम्
Verse 39
अद्यपर्वतसङ्काशंससूर्यमिवतोयदम् विकीर्णंपश्यसमरेसुग्रीवंप्लवगोत्तम
Verse 40
कथं च राक्षसैरेभिर्मया च परिरक्षितः जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ
Verse 41
मांनिहत्यकिलत्वांहिनिहनिष्यतिराघवः नाहमात्मनिसन्तापंगच्छेयंराक्षसाधिप
Verse 42
कामंवतिदानीमपिमांव्यादिशत्वंपरन्तप न परःप्रेषणीयस्तेयुद्धायातुलविक्रम
Verse 43
अहमुत्सादयिष्यामिशत्रूंस्तवमहाबल: यदिशक्रोयदियमोयदिपावकमारुतौ तानहंयोधयिष्यामिकुबेरवरुणावपि
Verse 44
गिरिमात्रशरीरस्यशितशूलधरस्यमे नर्दतस्तीक्षणदंष्ट्रस्यबिभीयाच्चपुरन्दरः
Verse 45
अथवात्यक्तशस्त्रस्यमृद्नतस्तरसारिपून् न मेप्रतिमुखेस्थातुंकश्चित् शक्तोजिजीविषुः
Verse 46
नैवशक्त्या न गदयानासिनानिशितैश्शरैः हस्ताभ्यामेवसम्रब्दोहनिष्याम्यपिवज्रिणम्
Verse 47
यदिमेमुष्टिवेगं स राघवोऽद्यसहिष्यते ततःपाश्यन्तिबाणौघारुधिरंराघवस्यतु
Verse 48
चिन्तयाबाध्यसेराजन्किमर्थंमयितिष्ठति सोऽहंशत्रुविनाशाय तव निर्यातुमुद्यतः
Verse 49
मुञ्चरामाद्भयंराज न्हनिष्यामीहसम्युगे राघवंलक्ष्मणंचैवसुग्रीवं च महाबलम् हनूमन्तं च रक्षोघ्नंलङ्कायेनप्रदीपिता
Verse 50
मुञ्चरामाद्भयंराज न्हनिष्यामीहसम्युगे राघवंलक्ष्मणंचैवसुग्रीवं च महाबलम् हनूमन्तं च रक्षोघ्नंलङ्कायेनप्रदीपिता
Verse 51
हरींश्चापिहनियिष्यामिसंयुगेसमवास्थिवान् असाधारणमिच्छामिनदातुंमहद्यशः
Verse 52
तदिचेन्द्राद्भयं राजन्यदि चापिस्वयम्भुवः ततोऽहंनाशयिष्यामिनैशंतमइवांशुमान् अपिदेवाश्शयिष्यन्तेक्रुद्धेमयिमहीतले
Verse 53
यमं च शमयिष्यामिभक्षयिष्यामिपावकम् आदित्यंपातयिष्यामिसनक्षत्रंमहीतले
Verse 54
शतक्रतुंवधिष्यामिपास्यामिवरुणालयम् पर्वतांश्चूर्णयिष्यामिदारयिष्यामिमेदिनीम्
Verse 55
दीर्घकालंप्रसुप्तस्यकुम्भकर्णस्यविक्रमम् अद्यपश्यन्तुभूतानिभक्ष्यमाणानिसर्वशः नन्विदंत्रिदिवंसर्वमाहारस्य न पूर्यते
Verse 56
दीर्घकालंप्रसुप्तस्यकुम्भकर्णस्यविक्रमम् अद्यपश्यन्तुभूतानिभक्ष्यमाणानिसर्वशः नन्विदंत्रिदिवंसर्वमाहारस्य न पूर्यते
Verse 57
वधेनतेदाशरथेःसुखार्हंसुखंसमाहर्तुमहंव्रजामि निहत्यरामंसहलक्ष्मणेनखादामिन्हरियूथमुख्यान्
0:000:00
Speed: