Book 6 • Chapter 80
Sarga 80
42 verses
Verse 1
मकराक्षंहतंश्रुत्वारावणस्समितिञ्जयः रोषेणमहताविष्टोदन्ताङ्कटकटाय्य च कोपितश्चतदातत्रकिंकार्यमितिचिन्तयन् आदिदेशाथसङ्क्रुद्धोरणायेजितंसुतम्
Verse 2
मकराक्षंहतंश्रुत्वारावणस्समितिञ्जयः रोषेणमहताविष्टोदन्ताङ्कटकटाय्य च कोपितश्चतदातत्रकिंकार्यमितिचिन्तयन् आदिदेशाथसङ्क्रुद्धोरणायेजितंसुतम्
Verse 3
जहिवीर महावीर्यौभ्रातरौरामलक्ष्मणौ अदृश्योदृश्यमानोवासर्वथात्वंबलाधिकः
Verse 4
त्वमप्रतिमकर्माणमिन्द्रंजयसिसंयुगे किंपुनर्मानुषौदृष्टवा न वधिष्यसिसंयुगे
Verse 5
तथोक्तोराक्षसेन्द्रेणप्रतिगृह्यपितुर्वचः यज्ञभूमौ स विधिवत् पावकंजुहवेन्द्रजित्
Verse 6
जुह्वतश्चापितत्राग्निंरक्तोष्णीषधरास्त्रिरियः आजग्मुस्तत्रसम्भ्रान्ताराक्षस्योयत्ररावणिः
Verse 7
शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः लोहितानि च वासांहिस्रुवंकार्ष्णायसंतथा
Verse 8
सर्वतोऽग्निंसमास्तीर्यशरपत्रैस्सतोमरैः छागस्यसर्वकृष्णस्यगळंजग्राहजीवतः
Verse 9
सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः बभूवुस्तानिलिङ्गानिविजयंदर्शयन्ति च
Verse 10
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः हविस्तत्प्रतिजग्राहपावकस्स्वयमुत्थितः
Verse 11
हुत्वाग्निंतर्पयित्वाथदेवदानवराक्षसान् आरुरोहरथश्रेष्ठमन्तर्थानगतंशुभम्
Verse 12
स वाजिभिश्चतुर्भिस्तुबाणैश्चनिशितैर्युतः आरोपितमहाचापश्शुशुभेस्यन्दनोत्तमः
Verse 13
जाज्वल्यमानोवपुषातपनीयपरिच्छदः मृगैश्चन्द्रार्धचन्द्रैश्च स रथस्समलङ्कृतः
Verse 14
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः बभूवेन्द्रजितःकेतुर्वैदूर्यसमलङ्कृतः
Verse 15
तेनचादित्यकल्पेनब्रह्मास्त्रण च पालितः स बभूवदुराधर्षोरावणिस्सुमहाबलः
Verse 16
सोऽभिनिर्यायनगरादिन्द्रजित्समितिञ्जयः हत्वाग्निंराक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्
Verse 17
अद्यहत्वारणेयौतौमिथ्याप्रव्रजितौवने जयंपित्रेप्रदास्यामिरावणायरणार्जितम्
Verse 18
अद्यनिर्वानरमुर्वींहत्वारामंसलक्ष्मणम् करिष्येपरमांप्रीतिमित्युक्त्वान्तरधीयत
Verse 19
आपपातथसङ्कृद्धोदशग्रीवेणचोदितः तीक्षणकार्मुकनाराचैस्तीक्षणस्त्विन्द्ररिपूरणे
Verse 20
स ददर्शमहावीर्यौनागौत्रिशिरसानिव सृजन्ताविषुजालानिवीरौवानरमध्यगौ
Verse 21
इमौतावितिसञ्चिन्त्यसज्जंकृत्वा च कार्मुकम् सन्ततानेषुधाराभिःपर्जन्यइववृष्टिमान्
Verse 22
तुवैहायसंप्राप्यसरथोरामलक्ष्मणौ आचक्षुर्विषयेतिष्ठवनिव्याधनिशितैश्शरैः
Verse 23
तौतस्यशरवेगेनपरीतौरामलक्ष्मणौ धनुषीसशरेकृत्वादिव्यमस्त्रंप्रचक्रतुः
Verse 24
प्रच्छादयन्तौगगनंशरजालैर्महाबलौ तमस्त्रःसूर्यसङ्काशैर्नैवपस्पृशतुश्शरैः
Verse 25
स हिधूमान्धकारं च चक्रेप्रच्चादयन्नभः दिशश्चान्तर्दधेश्रीमान्नीहारतमसावृताः
Verse 26
नैवज्यातलनिर्घोषा न च नेमिखुरस्वनः शुश्रुवेचरतस्तस्य न च रूपंप्रकाशते
Verse 27
घनान्धकारेतिमिरेशरावर्षमिवाद्भुतम् स ववर्षमहाबाहुर्नाराचशरवृष्टिभिः
Verse 28
स रामंसूर्यसङ्काशैश्शरैर्धत्तवरोर्भृशम् विव्याधसमरेक्रुद्धःसर्वगात्रेषुरावणिः
Verse 29
तौहन्यमानौनाराचैर्धाराभिरिवपर्वतौ हेमपुङ्खान्नरव्याघ्रौतिग्मान्मुमुचतुःशरान्
Verse 30
अन्तरिक्षेसमासाद्यरावणिंकङ्कपत्रिणः निकृत्यपतगाभूमौसेतुस्तेशोणितोक्षिताः
Verse 31
अतिमात्रंशरौघेणपीड्यमानौनरोत्तमौ तानिषून्पततोभल्लैरनेकैर्विचकर्ततुः
Verse 32
यतोहिददृशातेतौशरान् निपतितान्शितान् ततस्तुतौदाशरथीससृजातेऽस्त्रमुत्तमम्
Verse 33
रावणिस्तुदिशस्सर्वारथेनातिरथोऽपतत् विव्याधतौदाशरथीलघ्वस्त्रनिशितैःशरैः
Verse 34
तेनातिविद्धौतौवीरौरुक्मपुङ्खैःसुसम्हतैः बभूवतुर्धाशरथीपुष्पितामिवकिंशुकौ
Verse 35
नास्यवेगगतिंकचशिन्न च रूपंधनुश्शरान् न चान्यद्विदितंकिञ्चित्सूर्यस्येवाभ्रसम्प्लवे
Verse 36
तेनविद्धाश्चहरयोनिहताश्चगतासवः बभूवुःशतशस्तत्रपतिताधरणीतले
Verse 37
लक्ष्मणस्तुततस्सुङ्क्रृद्धोभ्रातरंवाक्यमब्रवीत् ब्राह्ममस्त्रंप्रयोक्ष्यामिवधार्थंसर्वरक्षसाम्
Verse 38
तमुवाचततोरामोलक्ष्मणंशुभलक्षणम् नैकस्यहेतोरक्षांसिपृथिव्यांहन्तुमर्हसि
Verse 39
अयुध्यमानंप्रच्छन्नंप्राञ्जलिंशरणागतम् पलायमानंमत्तंवा न हन्तुंत्वमिहार्हसि
Verse 40
अस्यैवतुवधेयत्नंकरिष्यावोमहाभुज आदेक्ष्यावोमहावेगावस्त्रानाशीविषोपमान्
Verse 41
तमेनंमायिनंक्षुद्रमन्तर्हितरथंबलात् राक्षसंनिहनिष्यन्तिदृष्टवावानरयूथपाः
Verse 42
यद्येषभूमिंविशतेदिवंवारसातलंवापिनभस्स्थलंवा एवंनिगूढोऽममास्त्रदग्धःपतिष्यतेभूमितलेगतासुः
0:000:00
Speed: