Book 6 • Chapter 96
Sarga 96
43 verses
Verse 1
आर्तानांराक्षसीनांतुलङ्कायांवैकुलेकुले रावणःकरुणंशब्दंशुश्रावपरिदेवितम्
Verse 2
स तुदीर्घंविनिःश्वस्यमुहूर्तंध्यानमास्थितः बभूवपरमक्रुद्धोरावणोभीमदर्शनः
Verse 3
सन्दश्यदशनैरोष्ठंक्रोधसम्रक्तलोचनः राक्षसैरपिदुर्दर्शःकालाग्निरिवमूर्छितः
Verse 4
उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः क्रोधाव्यक्तकथस्तत्रनिर्दहन्निवचक्षुषा महोदरंमहापार्श्वंविरूपाक्षं च राक्षसम् शीघ्रंवदतसैन्यानिनिर्यातेतिममाज्ञया
Verse 5
उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः क्रोधाव्यक्तकथस्तत्रनिर्दहन्निवचक्षुषा महोदरंमहापार्श्वंविरूपाक्षं च राक्षसम् शीघ्रंवदतसैन्यानिनिर्यातेतिममाज्ञया
Verse 6
तस्यतद्वचनंश्रुत्वाराक्षसास्तेभयार्दिताः चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया
Verse 7
तेतुसर्वेतथेत्युक्त्वाराक्षसाभीमदर्शनाः कृतस्वस्त्वयनाःसर्वेतेरणाभिमुखाययुः
Verse 8
प्रतिपूज्ययथान्यायंरावणंतेमहारथाः तस्थुःप्राञ्जलयःसर्वेभर्तुर्विजयकाङ्क्षिणः
Verse 9
अथोवाचप्रहस्यैतान्रावणःक्रोधमूर्छितः महोदरमहापार्श्वौविरूपाक्षं च राक्षसम्
Verse 10
अद्यबाणैर्धनुर्मुक्स्सैर्युगान्तादित्यसन्निभैः राघवंलक्ष्मणंचैवनेष्यामियमसादनम्
Verse 11
खरस्यकुम्भकर्णस्यप्रहसेन्द्रजितोस्तथा करिष्यामिप्रतीकारमद्यशत्रुवधादहम्
Verse 12
नैवान्तरिक्षं न दिशो न नद्यौर्नापिसागराः प्रकाशत्वंगमिष्यन्तिमद्बाणजलदावृताः
Verse 13
अद्यवानरमुख्यानांतानियूथानिभागशः धनुषाशरजालेनवधिष्यामिपतत्रिणा
Verse 14
अद्यवानरसैन्यानिरथेनपवनौजसा धनुस्समुद्रादुद्भूतैर्मथिष्यामिशरोर्मिभिः
Verse 15
व्याकोशपद्मवक्त्राणिपद्मकेसरवर्चसाम् अद्ययूथतटाकानिगजवत्प्रमथाम्यहम्
Verse 16
सशरैरद्यवदनैस्सङ्ख्येवानरयूथपाः मण्डयिष्यन्तिवसुधांसनालैरिवपङ्कजैः
Verse 17
अद्ययूथप्रचण्डानांहरीणांद्रुमयोधिनाम् मुक्तेनैकेषुणायुद्धेभेत्स्यामि च शतंशतम्
Verse 18
हतोभर्ताहतोभ्रातायासां च चतनयोहतः वधेनाद्यरिपोस्तासांकरोम्यश्रुप्रमार्जनम्
Verse 19
अद्यमद्भाणनिर्भिन्नैःप्रकीर्णैर्गतचेतनैः करोमिवानरैर्युद्धेयत्नावेक्ष्यतलांमहीम्
Verse 20
अद्यगोमयवोगृध्राश्चये च मांसाशिनोऽपरे सर्वांस्तांस्तर्पयिष्यामिशत्रुमांसैश्शरार्दितैः
Verse 21
कल्प्यतांमेरथंशीघ्रंक्षिप्रमानीयतांधनुः अनुप्रयान्तुमांयुद्धेयेऽत्रशिष्टानिशाचराः
Verse 22
तस्यतद्वचनंश्रुत्वामहापार्श्वोऽब्रवीद्वचः बलाध्यक्षान् स्थिथांस्तत्रबलंसंत्वर्यतामिति
Verse 23
बलाध्यक्षास्तुसम्रब्दाराक्षसांस्तान् गृहेगृहे चोदयन्तःपरिययुर्लङ्कांलघुपराक्रमाः
Verse 24
ततोमुहूर्तान्निष्पेतूराक्षसाभीमदर्शनाः नदन्तोभीमवदनानानाप्रहरणैर्भुजैः असिभिःपट्टसै: शूलैर्गदाभिर्मुसलैर्हलैः शक्तिभिस्तीक्ष्णधाराभिर्महद्भि: कूटमुद्गरैः यष्टिभिर्विमलैश्चक्रैर्निशितैश्चपरश्वथै: भिन्दिपालैःशतघ्नीभिरन्यैश्चापिवरायुधैः
Verse 25
ततोमुहूर्तान्निष्पेतूराक्षसाभीमदर्शनाः नदन्तोभीमवदनानानाप्रहरणैर्भुजैः असिभिःपट्टसै: शूलैर्गदाभिर्मुसलैर्हलैः शक्तिभिस्तीक्ष्णधाराभिर्महद्भि: कूटमुद्गरैः यष्टिभिर्विमलैश्चक्रैर्निशितैश्चपरश्वथै: भिन्दिपालैःशतघ्नीभिरन्यैश्चापिवरायुधैः
Verse 26
ततोमुहूर्तान्निष्पेतूराक्षसाभीमदर्शनाः नदन्तोभीमवदनानानाप्रहरणैर्भुजैः असिभिःपट्टसै: शूलैर्गदाभिर्मुसलैर्हलैः शक्तिभिस्तीक्ष्णधाराभिर्महद्भि: कूटमुद्गरैः यष्टिभिर्विमलैश्चक्रैर्निशितैश्चपरश्वथै: भिन्दिपालैःशतघ्नीभिरन्यैश्चापिवरायुधैः
Verse 27
अथानयद्बलाध्यक्षस्सत्वरोरावणाज्ञया द्रुतंसूतसमायुक्तंयुक्ताष्टतुरगंरथम् आरुरोहतदाभीमोदीप्यमानंस्वतेजसा
Verse 28
ततःप्रयातस्सहसाराक्षसैर्भहुभिर्वृतः रावणःसत्त्वगाम्भीर्याद्दारयन्निवमेदिनीम्
Verse 29
रावणेनाभ्यनुज्ञातौमहापार्श्वमहोदरौ विरूपाक्षश्चदुर्धर्षोरथानारुरुहुस्तदा
Verse 30
तेतुहृष्टाविवर्धन्तोभिन्दन्तइवमेदिनीम् नादंघोरंविमुञ्चन्तोनिर्ययुर्जयकाङ्क्षिणः
Verse 31
ततोयुद्धायतेजस्वीरक्षोगणबलैर्वृतः निर्ययावुद्यतधनुःकालान्तकयमोपमः
Verse 32
ततःप्रजविताश्वेनरथेन स महारथः द्वारेणनिर्ययौतेनयत्रतौरामलक्ष्मणौ
Verse 33
ततोनष्टप्रभःसूर्योदिशश्चतिमिरावृताः द्विजाश्चनेदुर्घोराश्चसञ्चचाल च मेदिनी
Verse 34
ववर्षरुधिरंदेवश्चस्खलुश्चतुरङ्गमाः ध्वजाग्रेन्यपतद्गृध्रोविनेदुश्चाशिवाःशिवाः
Verse 35
नयनंचास्फुरद्वामंवामोबाहुरकम्पत विवर्णवदनश्साकतिंचिदभ्रश्यतस्वनः
Verse 36
ततोनिष्पततोयुद्धेदशग्रीवस्यरक्षसः रणेनिधनशंसीनिरूपाण्येतानिजज्ञिरे
Verse 37
अन्तरिक्षात्पपातोल्कानिराघतसमनिर्घास्वना विनेदुरशिवागृध्रावायसैरभिमिश्रिताः
Verse 38
एतानचिन्तयन्घोरानुत्पातान्समवस्थितान् निर्ययौरावणोमोहाद्वधार्थंकालचोदितः
Verse 39
तेषांतुरथघोषेणराक्षसानांमहात्मनाम् वानराणामपिचमूर्युद्धायैवाभ्यवर्तत
Verse 40
तेषांतुतुमुलंयुद्धंबभूवकपिरक्षसाम् अन्योन्यमाह्वयानानांक्रुद्धानांजयमिच्छताम्
Verse 41
ततःक्रुद्धोदशग्रीवश्शरैःकाञ्चनभूषणैः वानराणामनीकेषुचकारकदनंमहत्
Verse 42
विकृत्तशिरसःकेचिद्रावणेनवलीमुखाः केचिद्विच्छिन्नहृदयाःकेचिच्छ्रोत्रविवर्जिताः
Verse 43
निरुच्छवासाहताःकेचित्केचित्पार्श्वेषुदारिताः केचिद्विभिन्नशिरसःकेचिच्चक्षुर्विनाकृताः
0:000:00
Speed: