🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 98

Sarga 98

37 verses

Verse 1
हन्यमानेबलेतूर्णमन्योन्यंतेमहामृथे सरसीवमहाघर्मेसोपक्षीणेबभूवतुः
Verse 2
स्वबलस्यविघातेनविरूपाक्ष्वधेन  बभूवद्विगुणंक्रुद्धोरावणोराक्षसाधिपः
Verse 3
प्रक्षीणंतुबलंदृष्टवावध्यमानंवलीमुखैः बभूवास्यव्यथायुद्धेप्रेक्ष्यदैवविपर्ययम्
Verse 4
उवाच  समीपस्थंमहोदरमरिन्दमम् अस्मिन्कालेमहाबाहोजयाशात्वयिमेस्थिता
Verse 5
जहिशत्रुचमूंवीरदर्शयाद्यपराक्रमम् भर्तृपिण्डस्यकालोऽऽयंनिर्देष्टुंसाधुयुध्यताम्
Verse 6
एवमुक्तस्तथेत्युक्त्वाराक्षसेन्द्रोमहोदरः प्रविवेशारिसेनांतांपतङ्गइवपावकम्
Verse 7
ततस्सकदनंचक्रेवानराणांमहाबलः भर्तृवाक्येनतेजस्वीस्वेनवीर्येणचोदितः
Verse 8
वानराश्चमहासत्त्वाःप्रगृह्वःविपुलाशशिलाः प्रविश्यारिबलंभीमंजघ्नुस्तेरजनीचरान्
Verse 9
महोदरस्तुसङ्कृद्धश्शरैःकाञ्चनभूषणैः चिच्छेदपाणिपादोरुन्वानराणांमहाहवे
Verse 10
ततस्तेवानरास्सर्वेराक्षसैरर्दिताभृशम् दिशोदशद्रुताःकेचित्केचित्सुग्रीवमाश्रिताः
Verse 11
प्रभग्नांसमरेदृष्टवावानराणांमहाचमूम् अभिदुद्रावसुग्रीवोमहोदरमनन्तरम्
Verse 12
प्रगृह्यविपुलांघोरांमहीधरसमांशिलाम् चिक्षेप  महातेजास्तद्वधायहरीश्वरः
Verse 13
तामापततनींसहसाशिलांदृष्टवामहोदरः असम्भ्रान्तस्ततोबाणैर्निर्बिभेददुरासदाम्
Verse 14
रक्षसातेनबाणौघैर्निकृत्तासासहस्रधा निपपातशिलाभूमौगृध्रचक्रमिवाकुलम्
Verse 15
तांतुभिन्नांशिलांदृष्टवासुग्रीवःक्रोधमूर्छितः सालमुत्पाट्यचिक्षेपराक्षसेरणमूर्थनि
Verse 16
शरैश्चविददारैनंशूरःपरपुरञ्जयः  ददर्शततःक्रुद्धःपरिघंपतितंभुवि
Verse 17
आविध्यतु  तंदीप्तंपरिघंतस्यदर्शयन् परिघाग्रेणवेगेनजघानास्यहयोत्तमान् 6.98.17
Verse 18
तस्माद्धतहयावदीरःसोऽऽवप्लुत्यमहारथात् गदांजग्राहसंक्रुद्धोराक्षसोऽऽथमहोदरः
Verse 19
गदापरिघहस्तौतौयुधिवीरौसमीयतुः नर्दन्तौगोवृषप्रख्यौघनाविवसविद्युतौ
Verse 20
ततःक्रुद्धोगदांतस्यैचिक्षेपरजनीचरः ज्वलतनींभास्कराभासांसुग्रीवायमहोदरः
Verse 21
गदांतांसुमहाघोरामापततनींमहाबलः सुग्रीवोरोषताम्राक्षस्समुद्यम्यमहाहवे आजघानगदांतस्यपरिघेणहरीश्वर पपात  गदोद्भिन्नःपरिघस्तस्यभूतले
Verse 22
गदांतांसुमहाघोरामापततनींमहाबलः सुग्रीवोरोषताम्राक्षस्समुद्यम्यमहाहवे आजघानगदांतस्यपरिघेणहरीश्वर पपात  गदोद्भिन्नःपरिघस्तस्यभूतले
Verse 23
ततोजग्राहतेजस्वीसुग्रीवोवसुधातलात् आयसंमुसलंघोरंसर्वतोहेमभूषितम्
Verse 24
 तमुद्यम्यचिक्षेपसोऽऽप्यन्यांव्याक्षिपद्गदाम् भिन्नावन्योन्यमासाद्यपेततुद्दरणीतले
Verse 25
ततोग्नप्रहरणौमुष्टिभ्यांतौसमीयतुः तेजोबलसमाविष्टौदीप्ताविवहुताशनौ
Verse 26
जघ्नतुस्तौतदान्योन्यंवेदतुश्चपुनःपुनः तलैश्चान्योन्यमहत्यपेततुश्चमहीतले
Verse 27
उत्पेततुस्ततस्तूर्णंजघ्नतुश्चपरस्परम् भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ
Verse 28
जग्मतुस्तौश्रमंवीरौबाहुयुधेपरंतपौ अजहारतदाखडगमदूरपरिवर्तिनम् राक्षसश्चर्मणासार्धंमहावेगोमहोदरः
Verse 29
थैव  महाखडगंचर्मणापतितंसह जग्राहवानरश्रेष्ठस्सुग्रीवोवेगवत्तरः
Verse 30
तौतुरोषपरीताङ्गौनर्दन्तावभ्यधावताम् उद्यतासीरणेहृष्टावुभौशस्त्रविशारदौ
Verse 31
दक्षिणंमण्डलंचोभौसुतूर्णंसम्परीयतुः अन्योन्यमभिसङ्कृद्धौ जये प्रणिहितावुभौ
Verse 32
तुशूरोमहावेगोवीर्यश्लाघीमहोदरः महाचर्मणितंखडगंपातयामासदुर्मतिः
Verse 33
लग्नमुत्कर्षतःखडगंखडगेनकपिकुञ्जरः जहारसशिरस्त्राणंकुण्डलोपहितंशिरः
Verse 34
निकृत्तशिरसस्तस्यपतितस्यमहीतले तद्बलंराक्षसेन्द्रस्यदृष्टवातत्र  तिष्टते
Verse 35
हत्वांतंवानरैस्सार्धंननादमुदितोहरिः चुक्रोध  दशग्रीवोबभौहृष्टश्चराघवः
Verse 36
विषण्णवदनास्सर्वेराक्षसादीनचेतसः विद्रवन्तिततस्सर्वेभयवित्रस्तचेतसः
Verse 37
महोदरंतंन्वििपात्यभूमौमहागिरेःकीर्णमिवैकदेशम् सूर्यात्मजस्तत्ररराजलक्ष्म्यसूर्यस्स्वतेजोभिरिवाप्रधृष्यः
0:000:00
Speed: