🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 21

Sarga 21

22 verses

Verse 1
 पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः उवाच व्यक्तया वाचा तामनर्थार्थमागताम्
Verse 2
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः
Verse 3
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः हन्यमाना  हन्यन्ते   कुर्युर्वचो मम
Verse 4
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ
Verse 5
अनाथवद्विलपसि नाथे तु मयि संस्थिते उत्तिष्ठोत्तिष्ठ माभैषीर्वैक्लव्यं त्यज्यतामिह
Verse 6
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्
Verse 7
अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका शोणितौघपरिक्लिन्ना त्वया  परिसान्त्विता
Verse 8
प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्षणम्
Verse 9
ते तु रामेण सामर्षाः शूलपट्टसपाणयः समरे निहतास्सर्वे सायकैर्मर्मभेदिभिः
Verse 10
तान्दृष्ट्वा पतितान्भूमौ क्षणेनैव महाबलान् रामस्य  महत्कर्म महांस्त्रासोऽभवन्मम
Verse 11
अहमस्मि समुद्विग्ना विषण्णा  निशाचर शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी
Verse 12
विषादनक्राध्युषिते परित्रासोर्मिमालिनि किं मां  त्रायसे मग्नां विपुले शोकसागरे
Verse 13
एते  निहता भूमौ रामेण निशितैः शरैः येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः
Verse 14
मयि ते यद्यनुक्रोशो यदि रक्षस्सु तेषु  रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर 3.21.14 दण्डकारण्यनिलयं जहि राक्षसकण्टकम्
Verse 15
यदि रामं ममामित्रं  त्वमद्यवधिष्यसि तवैव चाग्रतः प्राणांस्त्यक्षामि निरपत्रप
Verse 16
बुद्ध्याहमनुपश्यामि  त्वं रामस्य संयुगे स्थातुं प्रतिमुखे शक्तस्सबलश्च महात्मनः
Verse 17
शूरमानी  शूरस्त्वं मिथ्यारोपितविक्रमः मानुषौ यो  शक्नोषि हन्तुं तौ रामलक्ष्मणौ
Verse 18
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर दण्डकारण्यनिलयं जहि तं कुलपांसन
Verse 19
निस्सत्वस्याल्प वीर्यस्य वासस्ते कीदृशस्त्विह अपयाहि जनस्थानातत्वरितस्सहबान्धवः
Verse 20
रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि 3.21.20  हि तेजस्समायुक्तो रामो दशरथात्मजः भ्राता चास्य महावीर्यो येन चास्मि विरूपिता
Verse 21
रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि 3.21.20  हि तेजस्समायुक्तो रामो दशरथात्मजः भ्राता चास्य महावीर्यो येन चास्मि विरूपिता
Verse 22
एवं विलप्य बहुशो राक्षसी विततोदरी कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता
0:000:00
Speed: