Book 3 • Chapter 20
Sarga 20
25 verses
Verse 1
ततश्शूर्पणखा घोरा राघवाश्रममागता राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया
Verse 2
ते रामं पर्णशालायामुपविष्टं महाबलम् ददृशुस्सीतया सार्धं वैदेह्या लक्ष्मणेन च 3.20.2
Verse 3
तान्दृष्ट्वा राघवश्श्रीमानागतांस्तां च राक्षसीम् अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्
Verse 4
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः इमानस्या वधिष्यामि पदवीमागतानिह
Verse 5
वाक्यमेतत्ततश्श्रुत्वा रामस्य विदितात्मनः तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्
Verse 6
राघवोऽपि महच्चापं चामीकरविभूषितम् चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्
Verse 7
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्
Verse 8
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ
Verse 9
युष्मान्पापात्मकान्हन्तुं विप्रकारान्महाहवे ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः
Verse 10
तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः
Verse 11
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाश्शूलपाणयः
Verse 12
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि
Verse 13
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनी अस्माकमग्रतः स्थातुं किं पुनर्योद्दुमाहवे
Verse 14
एहि बाहुप्रयुक्तैर्नः परिघैश्शूलपट्टिसैः प्राणांस्त्यक्षसि वीर्यं च धनुश्च करपीडितम्
Verse 15
इत्येवमुक्त्वा सङ्कृद्धा राक्षसास्ते चतुर्दश चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्
Verse 16
तानि शूलानि काकुत्स्थस्समस्तानि चतुर्दश तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः
Verse 17
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्
Verse 18
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् मुमोच राघवो बाणान्वज्रानिव शतक्रतुः
Verse 19
रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः 3.20.19 विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः
Verse 20
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः निपेतुश्शोणितार्द्राङ्गा विकृता विगतासवः
Verse 21
तान् दृष्ट्वा पतितान्भूमौ राक्षसी क्रोधमूर्छिता परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान्
Verse 22
उपगम्य खरं सा तु किञ्चित्संशुष्कशोणिता पपात पुनरेवार्ता सनिर्यासेव सल्लकी
Verse 23
पपात पुनरेवार्ता सनिर्यासेव सल्लकी
Verse 24
भ्रातुस्समीपे शोकार्ता ससर्ज निनदं मुहुः सस्वरं मुमुचे बाष्पं विषण्णवदना तदा
Verse 25
निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा
0:000:00
Speed: