🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 19

Sarga 19

26 verses

Verse 1
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः
Verse 2
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् व्यक्तमाख्याहि केन त्वमेवं रूपा विरूपिता
Verse 3
कः कृष्णसर्पमासीनमाशीविषमनागसम् तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया
Verse 4
कः कालपाशं समासज्य कण्ठे मोहान्न बुध्यते यस्त्वामद्य समासाद्य पीतवान्विषमुत्तमम्
Verse 5
बलविक्रमसम्पन्ना कामगा कामरूपिणी इमामवस्थां नीता त्वं केनान्तकसमागता
Verse 6
देवगन्धर्वभूतानामृषीणां  महात्मनाम् कोऽयमेवं विरूपां त्वां महावीर्यश्चकार 
Verse 7
 हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्
Verse 8
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः सलिले क्षीरमासक्तं निष्पिबन्निव सारसः
Verse 9
निहतस्य मया सङ्ख्ये शरसंकृत्तमर्मणः सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति
Verse 10
कस्य पत्ररथाः कायान्मांसमुत्कृत्य सङ्गताः प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे
Verse 11
तं  देवा  गन्धर्वा  पिशाचा  राक्षसाः मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे
Verse 12
उपलभ्य शनैस्संज्ञां तं मे शंसितुमर्हसि येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता
Verse 13
इति भ्रातुर्वचश्श्रुत्वा क्रुद्धस्य  विशेषतः ततश्शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्
Verse 14
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ
Verse 15
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ
Verse 16
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ देवौ वा मानुषौ वा तौ  तर्कयितुमुत्सहे
Verse 17
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा
Verse 18
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् इमामवस्थां नीताहं यथानाथासती तथा
Verse 19
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि
Verse 20
एष मे प्रथमः कामः कृतस्तात त्वया भवेत् तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे
Verse 21
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्
Verse 22
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह
Verse 23
तौ हत्वा तां  दुर्वृत्तामपावर्तितुमर्हथ इयं  रुधिरं तेषां भगिनी मम पास्यति
Verse 24
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः शीघ्रं सम्पाद्यतां तौ  प्रमथ्य स्वेन तेजसा
Verse 25
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश तत्र जग्मुस्तया सार्धं घना वातेरिता यथा
Verse 26
ततस्तु ते तं समुदग्रतेजसं तथापिऽतीक्ष्णप्रदरा निशाचराः  शेकुरेनं सहसा प्रमर्दितुं वनद्विपा दीप्तमिवाग्निमुत्थितम्
0:000:00
Speed: