Book 3 • Chapter 18
Sarga 18
26 verses
Verse 1
ततश्शूर्पणखां रामः कामपाशावपाशिताम् स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्
Verse 2
कृतदारोऽस्मि भवति भार्येयं दयिता मम त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता
Verse 3
अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्
Verse 4
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति
Verse 5
एनं भज विशालाक्षि भर्तारं भ्रातरं मम असपत्ना वरारोहे मेरुमर्कप्रभा यथा
Verse 6
इति रामेण सा प्रोक्ता राक्षसी काममोहिता विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्
Verse 7
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि
Verse 8
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः ततश्शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्
Verse 9
कथं दासस्य मे दासी भार्या भवितुमिच्छसि सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि
Verse 10
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी
Verse 11
एनां विरूपामसतीं करालां निर्णतोदरीम् भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति
Verse 12
को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि मानुषीषु वरारोहे कुर्याद्भावं विचक्षणः
Verse 13
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा
Verse 14
सा रामं पर्णशालायामुपविष्टं परन्तपम् सीतया सह दुर्दर्षमब्रवीत्काममोहिता
Verse 15
एनां विरूपामसतीं करालां निर्णतोदरीम् वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे
Verse 16
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् त्वया सह चरिष्यामि निस्सपत्ना यथासुखम्
Verse 17
इत्युक्त्वा मृगशाबाक्षीमलातसदृशेक्षणा अभ्यधावत्सुसङ्कृद्धा महोल्कां रोहिणीमिव
Verse 18
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः निगृह्य रामः कुपित स्ततो लक्ष्मणमब्रवीत्
Verse 19
क्रूरैरनार्यै स्सौमित्रे परिहासः कथञ्चन न कार्यः पश्यवैदेहीं कथञ्चित्सौम्य जीवतीम्
Verse 20
इमां विरूपामसतीमतिमत्तां महोदरीम् राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि
Verse 21
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः उद्धृत्य खङ्गं चिच्छेद कर्णनासं महाबलः
Verse 22
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्
Verse 23
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता ननाद विविधान्नादान्यथा प्रावृषि तोयदः
Verse 24
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्
Verse 25
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः
Verse 26
ततस्सभार्यं भयमोहमूर्छिता सलक्ष्मणं राघवमागतं वनम् विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा
0:000:00
Speed: