Book 3 • Chapter 17
Sarga 17
30 verses
Verse 1
कृताभिषेको रामस्तु सीता सौमित्रिरेव च तस्माद्गोदावरीतीरात्ततो जग्मुस्वमाश्रमम्
Verse 2
आश्रमं तमुपागम्य राघवस्सह लक्ष्मणः कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्
Verse 3
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः
Verse 4
स रामः पर्णशालायामासीनस्सह सीतया विरराज महाबाहुश्चित्रया चन्द्रमाः इव
Verse 5
तदाऽऽसीनस्य रामस्य कथासंसक्तचेतसः तं देशं राक्षसी काचिदाजगाम यदृच्छया
Verse 6
सा तु शूर्पणखा नाम दशग्रीवस्य राक्षसः भगिनी राममासाद्य ददर्श त्रिदशोपमम्
Verse 7
सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् गजविक्रान्तगमनं जटामण्डलधारिणम् सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता
Verse 8

Verse 9

Verse 10
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत्
Verse 11

Verse 12

Verse 13
जटी तापसरूपेण सभार्यश्शरचापधृत् आगतस्त्वमिमं देशं कथं राक्षससेवितम् किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि
Verse 14
एवमुक्तस्तु राक्षस्या शूर्पणख्या परन्तपः ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे
Verse 15
अनृतं न हि रामस्य कदाचिदपि सम्मतम् विशेषेणाऽश्रमस्थस्य समीपे स्त्रीजनस्य च
Verse 16
आसीद्धशरथो नाम राजा त्रिदशविक्रमः तस्याहमग्रजः पुत्रो रामो नाम जनैश्श्रुतः
Verse 17
भ्राताऽयं लक्ष्मणो नाम यवीयान्मामनुव्रतः इयं भार्या च वैदेही मम सीतेति विश्रुता
Verse 18
नियोगात् तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः
Verse 19
त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे
Verse 20
इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वत: साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता
Verse 21
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम 3.17.21 अहं शूर्पणखा नाम राक्षसी कामरूपिणी अरण्यं विचरामीदमेका सर्वभयङ्करा
Verse 22
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम 3.17.21 अहं शूर्पणखा नाम राक्षसी कामरूपिणी अरण्यं विचरामीदमेका सर्वभयङ्करा
Verse 23
रावणो नाम मे भ्राता बलीयान्राक्षसेश्वरः वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः
Verse 24
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ
Verse 25
तानहं समतिक्रान्ता राम त्वा पूर्वदर्शनात् समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्
Verse 26
अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी चिराय भव मे भर्ता सीतया किं करिष्यसि
Verse 27
विकृता च विरूपा च न चेयं सदृशी तव अहमेवानुरूपा ते भार्या रूपेण पश्य माम्
Verse 28
इमां विरूपामसतीं करालां निर्णतोदरीम् अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम्
Verse 29
ततः पर्वतशृङ्गाणि वनानि विविधानि च पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि
Verse 30
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् इदं वचनमारेभे वक्तुं वाक्यविशारदः
0:000:00
Speed: