Book 3 • Chapter 16
Sarga 16
43 verses
Verse 1
वसतस्तस्य तु सुखं राघवस्य महात्मनः शरद्व्यपाये हेमन्तऋतुरिष्टः प्रवर्तत
Verse 2
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम्
Verse 3
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत्
Verse 4
अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद अलङ्कृत इवाभाति येन संवत्सरः शुभः
Verse 5
नीहारपरुषो लोकः पृथिवी सस्यशालिनी जलान्यनुपभोग्यानि सुभगो हव्यवाहनः
Verse 6
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः कृताग्रयणकाः काले सन्तो विगतकल्मषाः
Verse 7
प्राज्यकामा जनपदास्सम्पन्नतरगोरसाः विचरन्ति महीपाला यात्रास्था विजिगीषवः
Verse 8
सेवमाने दृढं सूर्ये दिशमन्तक सेविताम् विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते
Verse 9
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः
Verse 10
अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतस्सुखाः दिवसास्सुभगादित्याश्चायासलिलदुर्भगाः
Verse 11
मृदुसूर्यास्सनीहाराः पटुशीतास्समारुताः शून्यारण्या हिमध्वस्ता दिवसा भान्तिसाम्प्रतम्
Verse 12
निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्
Verse 13
रविसङ्क्रान्तसौभाग्य स्तुषारारुणमण्डलः निश्श्वासान्ध इवादर्शन्छन्द्रमा न प्रकाशते
Verse 14
ज्योत्स्न तुषारमलिना पौर्णमास्यां न राजते सीतेव चातपश्यामा लक्ष्यते न तु शोभते
Verse 15
प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम् प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः
Verse 16
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च शोभन्तेऽभ्युदिते सूर्ये नद्भि क्रौञ्चसारसैः
Verse 17
खर्जूरपुष्पाकृतिभिश्शिरोभिः पूर्णतण्डुलैः शोभन्ते किञ्चिदानम्राश्शालयः कनकप्रभाः
Verse 18
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः दूरमभ्युदितस्सूर्यश्शशाङ्क इव लक्ष्यते
Verse 19
अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतस्सुखः संरक्तः किञ्चिदापाण्डुरातपश्शोभते क्षितौ
Verse 20
अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला वनानां शोभते भूमिर्निविष्टतरुणातपा
Verse 21
स्पृशंस्तु विमलं शीतमुदकं द्विरदस्सुखम् अत्यन्ततृषितो वन्यः प्रतिसंहरते करम्
Verse 22
एते हि समुपासीना विहगा जलचारिणः नावगाहन्ति सलिलमप्रगल्भा इवाहवम्
Verse 23
अवश्यायतमोनद्धा नीहारतमसाऽवृताः प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः
Verse 24
बाष्पसञ्छन्नसलिला रुतविज्ञेयसारसाः हिमार्द्रवालुकैस्तीरैस्सरितो भान्ति साम्प्रतम्
Verse 25
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम्
Verse 26
जराजर्जरितैः पद्मैशशीर्णकेसरकर्णिकैः नालषेर्हिमध्वस्सैर्न भन्ति कमलाकराः
Verse 27
अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे
Verse 28
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून् तपस्स्वी नियताहारश्शेते शीते महीतले
Verse 29
सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम्
Verse 30
अत्यन्तसुखसंवृद्धस्सुकुमारस्सुखोचितः कथं न्वपररात्रेषु सरयूमवगाहते
Verse 31
पद्मपत्रेक्षणो वीरश्श्यामो निरुदरो महान् धर्मज्ञ स्सत्यवादी च ह्रीनिषेधो जितेन्द्रियः प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः सन्त्यज्य विविधान्भोगानार्यं सर्वात्मना श्रितः
Verse 32
पद्मपत्रेक्षणो वीरश्श्यामो निरुदरो महान् धर्मज्ञ स्सत्यवादी च ह्रीनिषेधो जितेन्द्रियः प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः सन्त्यज्य विविधान्भोगानार्यं सर्वात्मना श्रितः
Verse 33
जितस्स्वर्गस्तव भ्रात्रा भरतेन महात्मना वनस्थमपि तापस्ये यस्त्वामनुविधीयते
Verse 34
न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः
Verse 35
भर्ता दशरथो यस्यास्साधुश्च भरतस्सुतः कथं नु साऽम्बा कैकेयी तादृशी क्रूरशीलिनी
Verse 36
इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धार्मिके परिवादं जनन्यास्तमसहन्राघवोऽब्रवीत्
Verse 37
स तेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु
Verse 38
निश्चिताऽपि हि मे बुद्धिर्वनवासे दृढव्रता भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः
Verse 39
संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च
Verse 40
कदान्वहं समेष्यामि भरतेन महात्मना शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन
Verse 41
इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् चक्रेऽभिषेकं काकुत्स्थस्सानुजस्सह सीतया
Verse 42
तर्पयित्वाऽथ सलिलैस्ते पितृ़न्दैवतानि च स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः
Verse 43
कृताभिषेकस्सरराज रामः सीताद्वितीयस्सह लक्ष्मणेन कृताभिषेको गिरिराजपुत्र्या रुद्रस्सनन्दी भगवानिवेशः
0:000:00
Speed: