Book 3 • Chapter 15
Sarga 15
31 verses
Verse 1
ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् उवाच भ्रातरं रामस्सौमित्रिं दीप्ततेजसम्
Verse 2
आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा अयं पञ्चवटीदेशस्सौम्य पुष्पितपादपः
Verse 3
सर्वतश्चार्यतां दृष्टिः कानने निपुणोह्यसि आश्रमः कतरस्मिन्नो देशे भवति सम्मतः
Verse 4
रमते यत्र वैदेही त्वमहं चैव लक्ष्मण तादृशो दृश्यतां देशस्सन्निकृष्टजलाशयः वनरामण्यकं यत्र स्थलरामण्यकं तथा सन्निकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम्
Verse 5

Verse 6
एवमुक्तस्तु रामेण लक्ष्मण संयताञ्जलिः सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्
Verse 7
परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते स्वयं तु रुचिरे देशे क्रियतामिति मां वद
Verse 8
सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः विमृशन्रोचयामास देशं सर्वगुणान्वितम्
Verse 9
स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि हस्तौ गृहीत्वा हस्तेन रामस्सौमित्रिमब्रवीत्
Verse 10
अयं देशस्समश्रीमान् पुष्पितैस्तरुभिर्वृतः इहाऽश्रमपदं सौम्य यथावत्कर्तुमर्हसि
Verse 11
इयमादित्यसङ्काशैः पद्मैस्सुरभिगन्धिभिः अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता
Verse 12
यथातख्यातमगस्त्येन मुनिना भावितात्मना इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता
Verse 13
नातिदूरे न चासन्ने मृगयूथपिपीडिताः मयूरनादिता रम्याः प्रांशवो बहुकन्दराः दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः
Verse 14

Verse 15
सौवर्णैराजतैस्ताम्रैर्देशे देशे च धातुभिः गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः
Verse 16
सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः नीवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः चन्दनैस्पन्दनैर्नीपैः पर्णासैर्लिकुचैरपि धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः
Verse 17

Verse 18

Verse 19
इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा
Verse 20
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा अचिरेणाऽश्रमं भ्रातुश्चकार सुमहाबलः
Verse 21
पर्णशालां सुविपुलां तत्र सङ्खातमृत्तिकाम् सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् 3.15. 21 शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् कुशकाशशरैः पर्णैस्सुपरिच्छादितां तथा समीकृततलां रम्यां चकार लघुविक्रमः निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम्
Verse 22

Verse 23

Verse 24
सहसा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा स्नात्वा पद्मानि चादाय सफलः पुनरागतः
Verse 25
ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि दर्शयामास रामाय तदाश्रमपदं कृतम्
Verse 26
स तं दृष्ट्वा कृतं सौम्यमाश्रमं सीतया सह राघवः पर्णशालायां हर्षमाहारयत्परम्
Verse 27
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत्
Verse 28
प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः
Verse 29
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम
Verse 30
एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः तस्मिन् देशे बहुफले न्यवसत्सुसुखं वशी
Verse 31
कञ्चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः
0:000:00
Speed: