Book 3 • Chapter 14
Sarga 14
35 verses
Verse 1
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः आससाद महाकायं गृध्रं भीमपराक्रमम्
Verse 2
तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति
Verse 3
स तौ मधुरया वाचा सौम्यया प्रीणयन्निव उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः
Verse 4
स तं पितृसखं बुद्ध्वा पूजयामास राघवः स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च
Verse 5
रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च
Verse 6
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् तान्मे निगदतस्सर्वानादितश्शृणु राघव
Verse 7
कर्दमः प्रथमस्तेषां विक्रीतस्तदनन्तरः शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पूलहस्तथा दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव काश्यपश्च महातेजास्तेषामासीच्च पश्चिमः
Verse 8

Verse 9

Verse 10
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् षष्टिर्दुहितरो राम यशस्विन्यो महायशः
Verse 11
काश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः अदितिं च दितिं चैव दनुमप्यथ कालिकाम् ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि
Verse 12
तास्तु कन्यास्ततः प्रीतः काश्यपः पुनरब्रवीत् पुत्रां स्स्रैलोक्यभर्तृ़न्वै जनयिष्यथ मत्समान्
Verse 13
अदितिस्तन्मना राम दितिश्च मनुजर्षभ कालिका च महाबाहो शेषास्त्वमनसोऽभवन्
Verse 14
अदित्यां जज्ञिरे देवात्रयस्त्रिंशदरिंदम आदित्या वसवो रुद्रा ह्यश्विनौ च परन्तप
Verse 15
दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः तेषामियं वसुमती पुराऽसीत्सवनार्णवा
Verse 16
दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिन्दम नरकं कालकंचैव कालिकापि व्यजायत
Verse 17
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः
Verse 18
उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः धृतराष्ट्रीतु हंसांश्च कलहंसांश्च सर्वशः
Verse 19
उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः धृतराष्ट्रीतु हंसांश्च कलहंसांश्च सर्वशः
Verse 20
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी शुकी नतां विजज्ञे तु नताया विनता सुता
Verse 21
दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः मृगीं च मृगमन्दां च हरीं भद्रमदामपि मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि
Verse 22
दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः मृगीं च मृगमन्दां च हरीं भद्रमदामपि मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि
Verse 23
अपत्यं तु मृगास्सर्वे मृग्या नरवरोत्तम ऋक्षाश्च मृगमन्दायास्सृमराश्चमरा स्तथा
Verse 24
हर्याश्च हरयोऽपत्यं वानराश्च तरस्स्विनः ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्
Verse 25
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः मातङ्ग्या स्त्वथ मातङ्गा अपत्यं मनुजर्षभ
Verse 26
गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत्सुतान्
Verse 27
ततो दुहितरौ राम सुरभिर्द्वेव्यजायत रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्स्विनीम्
Verse 28
रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान् सुरसाऽजनयन्नागान्राम कद्रूस्तु पन्नगान्
Verse 29
मनुर्मनुष्यान् जनयद्राम पुत्रान् यशस्विनः ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ
Verse 30
सर्वान् पुण्यफलान्वृक्षाननलापि व्यजायत विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा
Verse 31
कद्रूर्नागं सहस्रास्यं विजज्ञे धरणीधरम् द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च
Verse 32
तस्माज्जातोऽहमरुणात्सम्पातिस्तु ममाग्रजः जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम
Verse 33
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि इदं दुर्गं हि कान्तारं मृगराक्षस सेवितम् सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे
Verse 34
जटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा सङ्कथितं पुनः पुनः
Verse 35
स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्छलभानि वानलः
0:000:00
Speed: