Book 3 • Chapter 13
Sarga 13
27 verses
Verse 1
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण अभिवादयितुं यन्मां प्राप्तौ स्थ स्सह सीतया
Verse 2
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा
Verse 3
एषा हि सुकुमारी च दुःखैश्च न विमानिता प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता
Verse 4
यथैषा रमते राम इह सीता तथा कुरु दुष्करं कृतवत्येषा वने त्वामनुगच्छती
Verse 5
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन समस्थमनुरज्यान्ति विषमस्थं त्यजन्ति च
Verse 6
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा गरूडानिलयोश्शैघ्र्यमनुगच्छन्ति योषितः
Verse 7
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती
Verse 8
अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम
Verse 9
एवमुक्तस्समुनिना राघवस्संयताञ्जलिः उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्
Verse 10
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः गुणैस्सभ्रातृभार्यस्य वरदः परितुष्यति
Verse 11
किन्तु व्यादिश मे देशं सोदकं बहुकाननम् यत्राश्रमपदं कृत्वा वसेयं निरतस्सुखम्
Verse 12
ततोऽब्रवीन्मुनिश्रेष्ठश्श्रुत्वा रामस्य तद्वचः ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः
Verse 13
इतो द्वियोजने तात बहुमूलफलोदकः देशो बहुमृगश्श्रीमान्पञ्चवट्यभिविश्रुतः
Verse 14
तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह रमस्व त्वं पितुर्वाक्यं तथोक्तमनुपालयन्
Verse 15
कालोऽयं गतभूयिष्ठो यः काल स्तव राघव समयो यो नरेन्द्रेण कृतो दशरथेन ते तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि
Verse 16
धन्यस्ते जनको राम स राजा रघुनन्दन यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः
Verse 17
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ तपसश्च प्रभावेण स्नेहाद्दशरथस्य च
Verse 18
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया इहावासं प्रतिज्ञाय मया सह तपोवने अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति
Verse 19
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया इहावासं प्रतिज्ञाय मया सह तपोवने अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति
Verse 20
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते स देशश्श्लाघनीयश्च नातिदूरे च राघव
Verse 21
गोदावर्यास्समीपे च मैथिली तत्र रंस्यते प्राज्यमूलफलश्चैव नानाद्विजगणायुतः विविक्तश्च महाबाहो पुण्योरम्यस्तथैव च
Verse 22
भवानपि सदारश्च शक्तश्च परिरक्षणे अपि चात्र वसन्राम तापसान्पालयिष्यसि
Verse 23
एतदालक्ष्यते वीर मधूकानां महद्वनम् उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता
Verse 24
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः
Verse 25
अगस्त्येनैवमुक्तस्तु रामस्सौमित्रिणा सह सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्
Verse 26
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ तदाश्रमात्पञ्चवटीं जग्मतुस्सीतया सह
Verse 27
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ
0:000:00
Speed: