🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 12

Sarga 12

37 verses

Verse 1
सप्रविश्याऽश्रमपदं लक्ष्मणो राघवानुजः अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच 
Verse 2
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया
Verse 3
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः
Verse 4
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्
Verse 5
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः तथेत्युक्त्वाऽग्निशरणं प्रविवेश निवेदितुम्
Verse 6
 प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् कृताञ्जलिरुवाचेदं रामागमनमञ्जसा यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः
Verse 7
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव  प्रविष्टावाश्रमपदं सीतया सह भार्यया
Verse 8
द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि
Verse 9
ततश्शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् वैदेहीं  महाभागामिदं वचनमब्रवीत्
Verse 10
दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति
Verse 11
गम्यतां सत्कृतो रामस्सभार्यस्सहलक्ष्मणः प्रवेश्यतां समीपं मे किं चासौ  प्रवेशितः
Verse 12
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः
Verse 13
ततो निष्क्रम्य सम्भ्रान्तश्शिष्यो लक्ष्मणमब्रवीत् क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्
Verse 14
ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः दर्शयामास काकुत्स्थं सीतां  जनकात्मजाम्
Verse 15
तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम्
Verse 16
प्रविवेश ततो रामस्सीतया सहलक्ष्मणः प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्
Verse 17
 तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव  विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः सोमस्थानं भगस्थानं स्थानं कौबेरमेव  दातुर्विधातुः स्थानेच वायोः स्थानं तथैव  नागराजस्य  स्थानमनन्तस्य महात्मनः स्थानं तथैव गायत्र्या वसूनां स्थानमेव  स्थानं  पाशहस्तस्य वरुणस्य महात्मनः कार्तिकेयस्य  स्थानं धर्मस्थानं  पश्यति
Verse 18
 तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव  विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः सोमस्थानं भगस्थानं स्थानं कौबेरमेव  धातुर्विधातुः स्थानं  वायोः स्थानं तथैव  नागराजस्य  स्थानमनन्तस्य महात्मनः स्थानं तथैव गायत्र्या वसूनां स्थानमेव  स्थानं  पाशहस्तस्य वरुणस्य महात्मनः कार्तिकेयस्य  स्थानं धर्मस्थानं  पश्यति
Verse 19
 तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव  विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः सोमस्थानं भगस्थानं स्थानं कौबेरमेव  दातुर्विधातुः स्थानेच वायोः स्थानं तथैव  नागराजस्य  स्थानमनन्तस्य महात्मनः स्थानं तथैव गायत्र्या वसूनां स्थानमेव  स्थानं  पाशहस्तस्य वरुणस्य महात्मनः कार्तिकेयस्य  स्थानं धर्मस्थानं  पश्यति
Verse 20

Verse 21
ततश्शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्
Verse 22
अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् 3.12.22 एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः औदार्येणावगच्छामि निधानं तपसामिमम्
Verse 23
अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् 3.12.22 एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः औदार्येणावगच्छामि निधानं तपसामिमम्
Verse 24
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् जग्राह परमप्रीतस्तस्य पादौ परन्तपः
Verse 25
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः सीतया सह वैदेह्या तदा रामः सलक्ष्मणः
Verse 26
प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः कुशलप्रश्नमुक्त्वा  आस्यतामिति चाब्रवीत्
Verse 27
अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य  वानप्रस्थ्येन धर्मेण  तेषां भोजनं ददौ
Verse 28
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्
Verse 29
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्
Verse 30
राजा सर्वस्य लोकस्य धर्मचारी महारथः पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः
Verse 31
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्
Verse 32
इदं दिव्यं महच्चापं हेमरत्नविभूषितम् वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा अमोघस्सूर्यसङ्काशो ब्रह्मदत्तश्शरोत्तमः
Verse 33
इदं दिव्यं महच्चापं हेमरत्नविभूषितम् वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा अमोघस्सूर्यसङ्काशो ब्रह्मदत्तश्शरोत्तमः
Verse 34
दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः महारजतकोशोऽयमसिर्हेमविभूषितः
Verse 35
अनेन धनुषा राम हत्वा संख्ये महासुरान् आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्
Verse 36
तद्धनुस्तौ  तूणीरौ शरं खङ्गं  मानद जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा
Verse 37
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् दत्वा रामाय भगवानगस्त्यः पुनरब्रवीत्
0:000:00
Speed: