🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 11

Sarga 11

93 verses

Verse 1
अग्रतः प्रययौ रामस्सीता मध्ये सुमध्यमा पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम 
Verse 2
तौ पश्यमानौ विविधान् शैलप्रस्थान्वनानि  नदीश्च विविधा रम्या जग्मतुस्सीतया सह
Verse 3
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः सरांसि  सपद्मानि युक्तानि जलजैः खगैः
Verse 4
यूथबद्धांश्च पृषतान्मदोन्मत्तान् विषाणिनः महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः
Verse 5
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ददृशुस्सहिता रम्यं तटाकं योजनायतम् पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम् सारसैर्हंसकादम्बैस्सङ्कुलं जलचारिभिः
Verse 6
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ददृशुस्सहिता रम्यं तटाकं योजनायतम् पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम् सारसैर्हंसकादम्बैस्सङ्कुलं जलचारिभिः
Verse 7
प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे गीतवादित्रनिर्घोषो  तु कश्चन दृश्यते
Verse 8
ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे
Verse 9
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने कौतूहलं महज्जातं किमिदं साधु कथ्यताम् वक्तव्यं यदि चेदविप्र नातिगुह्यमपि प्रभो
Verse 10
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे
Verse 11
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् निर्मितं तपसा राम मुनिना माण्डकर्णिना
Verse 12
 हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः दशवर्षसहस्राणि वायुभक्षो जलाश्रयः
Verse 13
ततः प्रव्यथितास्सर्वे देवास्साग्निपुरोगमाः अब्रुवन् वचनं सर्वे परस्परसमागताः
Verse 14
अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः इति संविग्नमनसस्सर्वे ते त्रिदिवौकसः
Verse 15
तत्र कर्तुं तपोविघ्नं देवैस्सर्वैर्नियोजिताः प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः
Verse 16
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये
Verse 17
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्
Verse 18
तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्
Verse 19
तासां सङ्क्रीडमानानामेष वादित्रनिस्स्वनः श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः
Verse 20
आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः राघवः प्रतिजग्राह सह भ्रात्रा महायशाः
Verse 21
एवं कथयमानस्य ददर्शाश्रममण्डलम् कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्
Verse 22
प्रविश्य सह वैदेह्या लक्ष्मणेन  राघवः उवास मुनिभिस्सर्वैः पूज्यमानो महायशाः
Verse 23
तदा तस्मिन्सकाकुत्थ्सः श्रीमत्याश्रममण्डले उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् येषामुषितवान् पूर्वं सकाशे  महास्त्रवित्
Verse 24
तदा तस्मिन्सकाकुत्थ्सः श्रीमत्याश्रममण्डले उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् येषामुषितवान् पूर्वं सकाशे  महास्त्रवित्
Verse 25
क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् क्वचिच्छ चतुरो मासान् पञ्च षट्चापरान्क्वचित् अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्
Verse 26
क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् क्वचिच्छ चतुरो मासान् पञ्च षट्चापरान्क्वचित् अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्
Verse 27
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै रमतश्चानुकूल्येन ययुस्संवत्सरा दश
Verse 28
परिवृत्य  धर्मज्ञो राघवस्सह सीतया सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम 
Verse 29
 तमाश्रममासाद्य मुनिभिः प्रतिपूजितः तत्रापि न्यवसद्रामः कञ्चित्कालमरिन्दमः
Verse 30
तदाश्रमस्थो विनयात्कदाचित्तं महामुनिम् उपासीनस्सकाकुत्स्थस्सुतीक्ष्णमिदमब्रवीत्
Verse 31
अस्मिन्नरण्ये भगवानगस्त्यो मुनिसत्तमः वसतीति मया नित्यं कथाः कथयतां श्रुतम्
Verse 32
 तु जानामि तं देशं वनस्यास्य महत्तया कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः
Verse 33
प्रसादात्तत्र भवतस्सानुजस्सह सीतया अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्
Verse 34
मनोरथो महानेष हृदि मे परिवर्तते यद्यहं तं मुनिवरं शुश्रूषेयमपि स्वयम्
Verse 35
इति रामस्य  मुनिश्श्रुत्वा धर्मात्मनो वचः सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्
Verse 36
अहमप्येतदेव त्वां वक्तुकामस्सलक्ष्मणम् अगस्त्यमभिगच्छेति सीतया सह राघव
Verse 37
दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम् अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः
Verse 38
योजनान्याश्रमात्तात याहि चत्वारि वै ततः दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः
Verse 39
स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते बहुपुष्पफले रम्ये नानाशकुनिनादिते
Verse 40
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्
Verse 41
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्
Verse 42
दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरा
Verse 43
रमणीये वनोद्धेशे बहुपादपसंवृते रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया  हि रम्यो वनोद्देशो बहुपादपसङ्कुलः
Verse 44
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् अद्यैव गमने बुद्धिं रोचयस्व महायशः
Verse 45
इति रामो मुनेश्श्रुत्वा सह भ्रात्राभिवाद्य  प्रतस्थेऽमुद्दिश्य सानुजस्सीतया सह
Verse 46
पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् सरांसि सरितश्चैव पथि मार्गवशानुगाः सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्
Verse 47
पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् सरांसि सरितश्चैव पथि मार्गवशानुगाः सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्
Verse 48
एतदेवाश्रमपदं नूनं तस्य महात्मनः अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः
Verse 49
यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः सन्नताः फलभारेण पुष्पभारेण  द्रुमाः
Verse 50
पिप्पलीनां  पक्वानां वनादस्मादुपागतः गन्धोऽयं पवनोक्षिप्तस्सहसा कटुकोदयः
Verse 51
तत्र तत्र  दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः
Verse 52
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते
Verse 53
विविक्तेषु  तीर्थेषु कृतस्नाना द्विजातयः पुष्पोपहारं कुर्वन्ति कुसुमैस्स्वयमर्जितै
Verse 54
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति
Verse 55
निगृह्य तपसा मृत्युं लोकानां हितकाम्यया यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा
Verse 56
धारयन् ब्राह्मणं रूपमिल्वलस्संस्कृतं वदन् आमन्त्रयति विप्रान्स्मश्राद्धमुद्दिश्य निर्घृणः
Verse 57
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् तान् द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा
Verse 58
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् तान् द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा
Verse 59
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् वातापे निष्क्रमन्वेति स्वरेण महता वदन्
Verse 60
ततो भ्रातुर्वचश्श्रुत्वा वातापिर्मेषवन्नदन् भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्
Verse 61
ब्राह्माणानां सहस्राणि तैरेवं कामरूपिभिः विनाशितानि संहत्य नित्यशः पिशिताशनैः
Verse 62
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा अनुभूय किल श्राद्धे भक्षितस्समहासुरः
Verse 63
ततस्सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः भ्रातरं निष्क्रमस्वेति चेल्वलस्सोऽभ्यभाषत
Verse 64
 तं तथा भाषमाणं भ्रातरं विप्रघातिनम् अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः
Verse 65
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम्
Verse 66
अथ तस्य वचश्श्रुत्वा भ्रातुर्निधनसंश्रयम् प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः
Verse 67
सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा चक्षुषानलकल्पेन निर्दग्धो निधनं गतः
Verse 68
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्
Verse 69
एवं कथयमानस्य तस्य सौमित्रिणा सह रामस्यास्तं गतस्सूर्यस्सन्ध्याकालोऽभ्यवर्ततः
Verse 70
उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि प्रविवेशाऽश्रमपदं तमृषिं सोऽभ्यवादयत्
Verse 71
सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः न्यवसत्तां निशामेकां प्राश्य मूलफलानि 
Verse 72
तस्यां रात्य्रां व्यतीतायां विमले सूर्यमण्डले भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः
Verse 73
अभिवादये त्वां भगवन् सुखमध्युषितो निशाम् आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्
Verse 74
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्
Verse 75
नीवारान्पनसांस्तालांस्तिमिशान्वञ्चुलान्धवान् चिरिबिल्वान्मधूकांश्च बिल्वानपि  तिन्दुकान्
Verse 76
पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ददर्श रामश्शतशस्तत्र कान्तारपादपान् हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् मत्तैश्शकुनिसङ्घैश्च शतशश्च प्रणादितान्
Verse 77
पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ददर्श रामश्शतशस्तत्र कान्तारपादपान् हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् मत्तैश्शकुनिसङ्घैश्च शतशश्च प्रणादितान्
Verse 78
ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्
Verse 79
स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः
Verse 80
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः
Verse 81
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः प्रशान्तमृगयूथश्च नानाशकुनिनादितः
Verse 82
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते
Verse 83
यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः
Verse 84
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः
Verse 85
मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः निदेशं पालयन्यस्य विन्ध्यशैला  वर्धते अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः अगस्त्यस्याश्रम श्रीमान्विनीतजनसेवितः
Verse 86
मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः निदेशं पालयन्यस्य विन्ध्यशैला  वर्धते अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः अगस्त्यस्याश्रम श्रीमान्विनीतजनसेवितः
Verse 87
एष लोकार्चितस्साधुर्हिते नित्यरतस्सताम् अस्मानभिगतानेष श्रेयसा योजयिष्यति
Verse 88
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् शेषं  वनवासस्य सौम्य वत्स्याम्यहं प्रभो
Verse 89
अत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः अगस्त्यं नियताहारं सततं पर्युपासते
Verse 90
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः नृशंसः कामवृत्तो वा मुनिरेष तथाविधः
Verse 91
अत्र देवाश्च यक्षाश्च नागाश्च पतगैस्सह वसन्ति नियताहारा धर्ममाराधयिष्णवः
Verse 92
अत्र सिद्धा महात्मानो विमानैजस्सूर्यसन्निभैः त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः
Verse 93
यक्षत्वममरत्वं  राज्यानि विविधानि  अत्र देवाः प्रयच्छन्ति भूतैराराधिताश्शुभैः
0:000:00
Speed: