Book 3 • Chapter 10
Sarga 10
23 verses
Verse 1
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्
Verse 2
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे
Verse 3
किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति
Verse 4
ते चार्ता दण्डकारण्ये मुनयस्संशितव्रताः मां सीते स्वयमागम्य शरण्याश्शरणं गताः
Verse 5
वसन्तो धर्मनिरता वने मूलफलाशनाः न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः
Verse 6
काले काले च निरता नियमैर्विविधैर्वने भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः
Verse 7
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमा
Verse 8
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्
Verse 9
प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः
Verse 10
किं करोमीति च मया व्याहृतं द्विजसन्निधौ सर्वैरेतैस्समागम्य वागियं समुदाहृता
Verse 11
राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः अर्दितास्स्म दृढं राम भवान्नस्तत्र रक्षतु
Verse 12
होमकालेषु सम्प्राप्ताः पर्वकालेषु चानघ धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः
Verse 13
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् गतिं मृगयमाणानां भवान्नः परमा गतिः
Verse 14
कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान् चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्
Verse 15
बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः
Verse 16
तदर्ध्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने
Verse 17
मया चैतद्वचश्श्रुत्वा कार्त्स्न्येन परिपालनम् ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे
Verse 18
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा
Verse 19
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः
Verse 20
तदवश्यं मया कार्यमृषीणां परिपालनम् अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः
Verse 21
मम स्नेहाच्च सौहार्दादिदमुक्तंत्वयाऽनघे परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते
Verse 22
सदृशं चानुरूपं च कुलस्य तव चात्मनः सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी
Verse 23
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् रामो धनुष्मान्सह लक्ष्मणेन जगाम रम्याणि तपोवनानि
0:000:00
Speed: