Book 3 • Chapter 9
Sarga 9
33 verses
Verse 1
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्
Verse 2
अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान् निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह
Verse 3
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत मिथ्यावाक्यं परमकं तस्माद्गुरुतरावुभौ परदाराभिगमनं विना वैरं च रौद्रता
Verse 4
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम्
Verse 5
तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन मनस्यपि तथा राम न चैतद्विद्यते क्वचित्
Verse 6
स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः
Verse 7
सत्यसन्ध महाभाग श्रीमल्लक्ष्मणपूर्वज त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्
Verse 8
तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः तव वश्येन्द्रियत्वं च जानामि शुभदर्शन
Verse 9
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम्
Verse 10
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम्
Verse 11
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः
Verse 12
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निश्श्रेयसं हितम्
Verse 13
त्वां चैव प्रस्थितं दृष्ट्वा राम चिन्ताकुलं मनः सर्वतचशिन्तय्नत्या मे तव निश्श्रेयसं नृप न हि मे रोचते वीर गमनं दण्डकान्प्रति कारणं तत्र वक्ष्यामि वदन्त्याश्श्रूयतां मम
Verse 14
त्वां चैव प्रस्थितं दृष्ट्वा राम चिन्ताकुलं मनः सर्वतचशिन्तय्नत्या मे तव निश्श्रेयसं नृप न हि मे रोचते वीर गमनं दण्डकान्प्रति कारणं तत्र वक्ष्यामि वदन्त्याश्श्रूयतां मम
Verse 15
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः दृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याश्शरव्ययम्
Verse 16
क्षत्रियाणामपि धनुर्हुताशस्येन्धनानि च समीपतस्स्थितं तेजो बलमुच्छ्रयते भृशम्
Verse 17
पुरा किल महाबाहो तपस्स्वी सत्यवाक्छुचिः कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे
Verse 18
तस्यैव तपसो विघ्नं कर्तुमिन्द्रश्शचीपतिः खङ्गपाणिरथागच्छदाश्रमं भटरूपधृत्
Verse 19
तस्मिंस्तदाश्रमपदे निशितः खङ्ग उत्तमः स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः
Verse 20
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः वने तु विचरत्येव रक्षन्प्रत्ययमात्मनः
Verse 21
यत्र गच्छत्युपादातुं मूलानि च फलानि च न विना याति तं खङ्गं न्यासरक्षणतत्परः
Verse 22
नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्
Verse 23
ततस्सरौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः
Verse 24
एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम् अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये
Verse 25
एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम् अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये
Verse 26
न कथञ्चन सा कार्या गृहीतधनुषा त्वया बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् अपराधं विना हन्तुं लोकान्वीर न कामये
Verse 27
क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् धनुषा कार्यमेतावदार्तानां त्वभिरक्षणम्
Verse 28
क्वच शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्वच व्याविद्धमिदमस्माभिर्द्देशधर्मस्तु पूज्यताम्
Verse 29
तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि
Verse 30
अक्षया तु भवेत्प्रीतिश्श्वश्रूश्वशुरयोर्मम यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः
Verse 31
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् धर्मेण लभते सर्वं धर्मसारमिदं जगत्
Verse 32
आत्मानं नियमैस्तैस्तै कर्शयित्वा प्रयत्नतः प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम्
Verse 33
नित्यं शुचिमतिस्सौम्य चर धर्मं तपोवने सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः
0:000:00
Speed: