Book 3 • Chapter 8
Sarga 8
20 verses
Verse 1
रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत
Verse 2
उत्थाय तु यथाकालं राघवस्सहसीतया उपस्पृश्यसुशितेन जलेनोत्पलगन्धिना
Verse 3
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः सुतीक्ष्णभिगम्येदं श्लक्ष्णं वचनमब्रुवन्
Verse 4
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः सुतीक्ष्णभिगम्येदं श्लक्ष्णं वचनमब्रुवन्
Verse 5
सुखोषितास्स्मभगवंस्त्वया पूज्येन पूजिताः आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः
Verse 6
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्
Verse 7
अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः
Verse 8
अविषह्यातपो यावत्सूर्यो नातिविराजते अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ववन्दे सहसौमित्रिस्सीतया सह राघवः
Verse 9
अविषह्यातपो यावत्सूर्यो नातिविराजते अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ववन्दे सहसौमित्रिस्सीतया सह राघवः
Verse 10
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत्
Verse 11
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह सीतया चानया सार्धं छाययेवानुवृत्तया
Verse 12
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् एषां तपस्विनां वीर तपसा भावितात्मनाम्
Verse 13
सप्राज्यफलमूलानि पुष्पितानि वनानि च प्रशस्तमृगयूथानि शान्तपक्षिगणानि च फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि च कारण्डवविकीर्णानि तटाकानि सरांसि च द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च रमणीयान्यरण्यानि मयूराभिरुतानि च
Verse 14

Verse 15

Verse 16
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम
Verse 17
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे
Verse 18
ततश्शुभतरे तूणी धनुषी चायतेक्षणा ददौ सीता तयोर्भ्रात्रोः खङ्गौ च विमलौ ततः
Verse 19
आबध्य च शुभे तूणी चापे चादाय सुस्वनौ निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ
Verse 20
श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ
0:000:00
Speed: