🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 7

Sarga 7

24 verses

Verse 1
रामस्तु सहितो भ्रात्रा सीतया  परन्तपः सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः
Verse 2
 गत्वा दीर्घमध्वानं नदीस्तीर्त्वा बहूदकाः ददर्श विमलं शैलं महामेघमिवोन्नतम्
Verse 3
तत स्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः काननं तौ विविशतुस्सीतया सह राघवौ
Verse 4
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्
Verse 5
तत्र तापसमासीनं मलपङ्कजटाधरम् रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत
Verse 6
रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः त्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम
Verse 7
 निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् समाश्लिष्य  बाहुभ्यामिदं वचनमब्रवीत्
Verse 8
स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर आश्रमोऽयं त्वयाक्रान्तस्सनाथ इव साम्प्रतम्
Verse 9
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः देवलोकमितो वीर देहं त्यक्त्वा महीतले चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः
Verse 10
इहोपयातः काकुत्थ्स देवराजश्शतक्रतुः उपागम्य  मे देवो महादेवस्सुरेश्वरः सर्वान् लोकाञ्जितानाह मम पुण्येन कर्मणा
Verse 11
इहोपयातः काकुत्थ्स देवराजश्शतक्रतुः उपागम्य  मे देवो महादेवस्सुरेश्वरः सर्वान् लोकाञ्जितानाह मम पुण्येन कर्मणा
Verse 12
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः
Verse 13
तमुग्रतपसायुक्तं महर्षिं सत्यवादिनम् प्रत्युवाचात्मवान्रामो ब्रह्माणमिव काश्यपः
Verse 14
अहमेवाहरिष्यामि सर्वान् लोकान्महामुने आवासं त्वहमिच्छामि प्रदिष्टमिह कानने
Verse 15
भवान्सर्वत्र कुशलस्सर्वभूतहिते रतः आख्यातश्शरभङ्गेण गौतमेन महात्मना
Verse 16
एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः अब्रवीन्मधुरं वाक्यं हर्षेण महताऽप्लुतः
Verse 17
अयमेवाश्रमो राम गुणवान्रम्यतामिह ऋषिसङ्घानुचरितस्सदा मूलफलैर्युतः
Verse 18
इममाश्रममागम्य मृगसङ्घा महायशः अहत्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः
Verse 19
नान्यद्धोषं भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै तच्छृत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः उवाच वचनं धीरो विकृष्य सशरं धनुः
Verse 20
तानहं सुमहाभाग मृगसङ्घान्समागतान् हन्यां निशितधारेण शरेणाशनिवर्चसा
Verse 21
भवांस्तत्राभिषज्येत किंस्यात्कृच्छ्रतरं ततः एतस्मिन्नाश्रमे वासं चिरं तु  समर्थये
Verse 22
तमेवमुक्त्वोपरमं रामस्सन्ध्यामुपागमत् अन्वास्य पश्चिमां स्नध्यां तत्र वासमकल्पयत् सुतीक्ष्णस्याऽश्रमे रम्ये सीतया लक्ष्मणेन 
Verse 23
तमेवमुक्त्वोपरमं रामस्सन्ध्यामुपागमत् अन्वास्य पश्चिमां संंध्यां तत्र वासमकल्पयत् सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन 
Verse 24
ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीं मवेक्ष्य
0:000:00
Speed: