🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 6

Sarga 6

26 verses

Verse 1
शरभङ्गे दिवं प्राप्ते मुनिसङ्घास्समागताः अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्
Verse 2
वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः मुनयस्सलिलाहारावायुभक्षा स्तथापरे आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः व्रतोपवासिनो दान्तास्तथाऽर्द्रपटवाससः सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगास्समाहिताः शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः
Verse 3

Verse 4

Verse 5

Verse 6

Verse 7
अभिगम्य  धर्मज्ञा रामं धर्मभृतां वरम् ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः
Verse 8
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ प्रधानश्चासि नाथश्च देवानां मघवानिव
Verse 9
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण  पितृभक्तिश्च सत्यं  त्वयि धर्मश्च पुष्कलः
Verse 10
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि
Verse 11
अधर्मस्सुमहांस्तात भवेत्तस्य महीपतेः यो हरेद्बलिषड्भागां   रक्षति पुत्रवत्
Verse 12
युञ्जानस्स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव नित्ययुक्तस्सदा रक्षन्सर्वान्विषयवासिनः प्राप्नोति शाश्वतीं राम कीर्तिं  बहुवार्षिकीम् ब्रह्मणस्स्थानमासाद्य तत्र चापि महीयते
Verse 13

Verse 14
यत्करोति परं धर्म मुनिर्मूलफलाशनः तत्र राज्ञश्चतुर्भाग प्रजा धर्मेण रक्षितः
Verse 15
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम्
Verse 16
एहि पश्य शरीराणि मुनीनां भावितात्मनाम् हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने
Verse 17
पम्पानदीनिवासानामनुमन्दाकिनीमपि चित्रकूटालयानां  क्रियते कदनं महत्
Verse 18
एवं वयं  मृष्यामो विप्रकारं तपस्विनाम् क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः
Verse 19
ततस्त्वां शरणार्थं  शरण्यं समुपस्थिताः परिपालय नो राम वध्यमानान्निशाचरैः
Verse 20
परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते परिपालय  स्सर्वान्राक्षसेभ्यो नृपात्मज
Verse 21
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः
Verse 22
नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम् केवलेनात्मकार्येण प्रवेष्टव्यं मया वनं
Verse 23
विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम् पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्
Verse 24
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया तस्य मेऽयं वने वासो भविष्यति महाफलः
Verse 25
तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान् पश्यन्तु वीर्यमृषयस्सभ्रातुर्मे तपोधनाः
Verse 26
दत्त्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः
0:000:00
Speed: