Book 3 • Chapter 5
Sarga 5
43 verses
Verse 1
हत्वा तु तं भीमबलं विराधं राक्षसं वने ततस्सीतां परिष्वज्य समाश्वास्य च वीर्यवान् अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम्
Verse 2
कष्टं वनमिदं दुर्गं न च स्म वनगोचराः अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्
Verse 3
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह तस्य देवप्रभावस्य तपसा भावितात्मनः समीपे शरभङ्गस्य ददर्श महदद्भुतम्
Verse 4
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह तस्य देवप्रभावस्य तपसा भावितात्मनः समीपे शरभङ्गस्य ददर्श महदद्भुतम्
Verse 5
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् अवरुह्यरथोत्सङ्गादाकाशे विबुधानुगम असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः
Verse 6
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् अवरुह्यरथोत्सङ्गादाकाशे विबुधानुगम असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः
Verse 7
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम्
Verse 8
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम्
Verse 9
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने गृहीते वरनारीभ्यां धूयमाने च मूर्धनि
Verse 10
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः अन्तरिक्षगतं देवं वाग्भिरग्य्राभिरीडिरे
Verse 11
सह सम्भाषमाणे तु शरभङ्गेन वासवे दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्
Verse 12
रामोऽथ रथमुद्दिश्य लक्ष्मणायप्रदर्शयन् अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्
Verse 13
रामोऽथ रथमुद्दिश्य लक्ष्मणायप्रदर्शयन् अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्
Verse 14
ये हयाः पुरुहूतस्य पुरा शक्रस्य नश्श्रुताः अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्
Verse 15
इमे च पुरुषव्याघ्रा ये तिष्ठ्न्त्यभितो रथम् शतं शतं कुण्डलिनो युवानः खङ्गपाणयः विस्तीर्णविपुलोरस्काः परिघायतबाहवः शोणांशुवसनास्सर्वे व्याध्रा इव दुरासदाः उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्
Verse 16

Verse 17

Verse 18
एतद्दि किल देवानां वयो भवति नित्यदा यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः
Verse 19
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण यावज्जानाम्यहं व्यक्तं क एष द्युतिमान्रथे
Verse 20
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति अभिचक्राम काकुत्स्थ श्शरभङ्गाश्रमं प्रति
Verse 21
ततस्समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत्
Verse 22
इहोपयात्यसौ रामो यावन्मां नाभिभाषते निष्ठां नयतु तावत्तु ततो मा द्रष्टुमर्हति जितवन्तं कृतार्थं हि तदाहमचिरादिमम् कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम्
Verse 23
इहोपयात्यसौ रामो यावन्मां नाभिभाषते निष्ठां नयतु तावत्तु ततो मा द्रष्टुमर्हति जितवन्तं कृतार्थं हि तदाहमचिरादिमम् कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम्
Verse 24
इति वज्री तमामन्त्र्य मानयित्वा च तापसम् रथेन हययुक्तेन ययौ दिवमरिन्दमः
Verse 25
प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदः अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्
Verse 26
तस्य पादौ च सङ्गृह्य रामस्सीता च लक्ष्मणः निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः
Verse 27
ततश्शक्रोपयानं तु पर्यपृच्छत्स राघवः शरभङ्गश्च तत्सर्यं राघवाय न्यवेदयत्
Verse 28
मामेष वरदो राम ब्रह्मलोकं निनीषति जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः
Verse 29
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्
Verse 30
त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना समागम्य गमिष्यामि त्रिदिवं देवसेवितम्
Verse 31
अक्षया नरशार्दूल मया लोका जिताश्शुभा ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्
Verse 32
एवमुक्तो नरव्याघ्रस्सर्वशास्त्र विशारदः ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत्
Verse 33
अहमेवाहरिष्यामि सर्वांल्लोकान्महामुने आवासं त्वहमिच्छामि प्रदिष्टमिह कानने
Verse 34
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः
Verse 35
इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति
Verse 36
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् रमणीये वनोद्देशे स ते वासं विधास्यति
Verse 37
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि
Verse 38
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः
Verse 39
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् शरभङ्गो महातेजाः प्रविवेश हुताशनम्
Verse 40
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः जीर्णां त्वचं तथाऽस्थीनि यच्च मांसं सशोणितम्
Verse 41
स च पावकसङ्काशः कुमारस्समपद्यत उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत
Verse 42
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत
Verse 43
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह
0:000:00
Speed: