Book 3 • Chapter 4
Sarga 4
32 verses
Verse 1
ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुमहाजाभुजौ
Verse 2
एष दाशरथी रामः सत्यवान् शीलवान् शुचिः रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः
Verse 3
मामृका भक्षयिष्यन्ति शार्दूलाद्वीपिनस्तथा मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम
Verse 4
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः
Verse 5
तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः
Verse 6
स भग्नबाहुस्सविग्नो निपपाताशु राक्षसः धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः
Verse 7
मुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम् उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः
Verse 8
स विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः
Verse 9
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् भयेष्वभयदश्श्रीमानिदं वचनमब्रवीत्
Verse 10
तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे
Verse 11
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः
Verse 12
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्
Verse 13
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः इदं प्रोवाच काकुत्थ्सं विराधः पुरुषर्षभम्
Verse 14
हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ
Verse 15
कौसल्यासुप्रजा राम तातस्त्वं विदितो मया वैदेही च महाभागा लक्ष्मणश्च महायशाः
Verse 16
अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह
Verse 17
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः यदा दाशरथी रामस्त्वां वधिष्यति संयुगे तदा प्रकृतिमापन्नो भवान्स्वर्गं गमिष्यति
Verse 18
अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह इति वैश्रवणो राजा रम्भासक्तमुवाच ह
Verse 19
तव प्रसादान्मुक्तोऽहमिहशापात्सुदारुणात् भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप
Verse 20
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः तं क्षिप्रमधिगच्छ त्वं स ते श्रेयोऽभिधास्यति
Verse 21
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः तं क्षिप्रमधिगच्छ त्वं स ते श्रेयोऽभिधास्यति
Verse 22
अवटे चापि मां राम प्रक्षिप्य कुशली व्रज रक्षसां गतसत्त्वानामेष धर्मस्ससनातनः अवटे ये निधीयन्ते तेषां लोकास्सनातनाः
Verse 23
एवमुक्त्वा तु काकुत्थ्सं विराधश्शरपीडितः बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः
Verse 24
तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौदकर्मणः इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्
Verse 25
तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौदकर्मणः इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्
Verse 26
ततः खनित्रमादाय लक्ष्मणश्श्वभ्रमुत्तमम् अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः
Verse 27
तं मुक्तकण्ठंनिक्षिप्य शङ्कुकर्णं महास्वनम् विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्
Verse 28
तमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम्
Verse 29
अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः
Verse 30
स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण यथार्थमीप्सितः निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति
Verse 31
तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने बिलं च रामेणातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम्
Verse 32
प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्या प्रदरे निहत्य तौ ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम्
0:000:00
Speed: