🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 3

Sarga 3

26 verses

Verse 1
इत्युक्त्वा लक्ष्मणश्श्रीमान्विराधे प्रहसन्निव कोभवान्वनमभ्येत्य चरिष्यसि यथासुखम्
Verse 2
अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् पृच्छतो मम हि ब्रूतं कौ युवां क्व गमिष्यथः
Verse 3
तमुवाच ततो रामो राक्षसं ज्वलिताननम् पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः
Verse 4
क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्
Verse 5
तमुवाच विराधस्तु रामं सत्यपराक्रमम् हन्त वक्ष्यामि ते राजन्निबोध मम राघव
Verse 6
पुत्रः किल जयस्याहं माता मम शतह्रदा विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः
Verse 7
तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव 
Verse 8
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् त्वरमाणौ पलायेथां  वां जीवितमाददे
Verse 9
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः राक्षसं विकृताकारं विराधं पापचेतसम्
Verse 10
क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् रणे प्राप्स्यसे सन्तिष्ठ  मे जीवन् गमिष्यासि
Verse 11
ततः सज्यं धनुः कृत्वा रामस्सुनिशिताञ्छरान् सुशीघ्रमभिसन्धाय राक्षसं निजघान 
Verse 12
धनुषा ज्यागुणवता सप्त बाणान्मुमोच  रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान्
Verse 13
ते शरीरं विराधस्य भित्त्वाबर्हिणवाससः निपेतुश्शोणितादिग्धा धरण्यां पावकोपमाः
Verse 14
 विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः अभ्यद्रवत्सुसङ्कृद्धस्तदा रामं सलक्ष्मणम्
Verse 15
 विनद्य महानादं शूलं शक्रध्वजोपमम् प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः
Verse 16
अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः विराधे राक्षसे तस्मिन् कालान्तकयमोपमे
Verse 17
 प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः
Verse 18
स्पर्शात्तु वरदानेन प्राणान्सम्रोध्य राक्षसः विराधः शूलमुद्यम्य राघवावभ्यधावत
Verse 19
तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम् द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतांवरः
Verse 20
तद्रामविशिखच्छिन्नं शूलं तस्यकराद्भुवि पपाताशनिना छिन्नं मेरोरिव शिलातलम्
Verse 21
तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौशुभौ तूर्णमापेततुस्तस्य तदा प्रहरतां बलात्
Verse 22
 वध्यमानः सुभृशं भुजाभ्यां परिरभ्यतौ अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत
Verse 23
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् वहत्वयमलं तावत्पथाऽनेन तु राक्षसः
Verse 24
यथा चेच्छति सौमित्रे तथा वहतु राक्षसः अयमेव हि नः पन्था येन याति निशाचरः
Verse 25
 तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः बालाविव स्कन्धगतौ चकारातिबलोद्धतः
Verse 26
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः विराधो विनदन्घोरं जगामाभिमुखो वनम्
0:000:00
Speed: