Book 3 • Chapter 23
Sarga 23
35 verses
Verse 1
तस्मिन्याते बले घोरमशिवं शोणितोदकम् अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः
Verse 2
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः समे पुष्पचिते देशे राजमार्गे यदृच्छया
Verse 3
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् अलातचक्रप्रतिमं परिगृह्य दिवाकरम्
Verse 4
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् समाक्रम्य महाकायस्तस्थौ गृध्रस्सुदारुणः
Verse 5
जनस्थानसमीपे तु समागम्य खरस्वनाः विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः
Verse 6
व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् अशिवं यातुधानानां शिवा घोरा महास्वनाः
Verse 7
प्रभिन्नगिरिसङ्काशास्तोयशोणितधारिणः आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः
Verse 8
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे
Verse 9
क्षतजार्द्रसवर्णाभा सन्ध्याकालं विना बभौ खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः
Verse 10
नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः
Verse 11
कबन्धः परिघाभासो दृश्यते भास्करान्तिके जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः
Verse 12
कबन्धः परिघाभासो दृश्यते भास्करान्तिके जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः
Verse 13
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः संलीनमीनविहगा नलिन्यश्शुष्कपङ्कजाः तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः
Verse 14
उद्धूतश्च विना वातं रेणुर्जलधरारुणः वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः
Verse 15
उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः प्रचचाल मही सर्वा सशैलवनकानना
Verse 16
खरस्य च रथस्थस्य नर्दमानस्य धीमतः प्राकम्पत भुजस्सव्यस्स्वरश्चास्यावसज्जत
Verse 17
सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः ललाटे च रुजा जाता न च मोहान्यवर्तत
Verse 18
तान्समीक्षय महोत्पातानुत्थितान्रोमहर्षणान् अब्रवीद्राक्षसान्सर्वान्प्रहसन्सखरस्तदा
Verse 19
महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव
Verse 20
तारा अपि शरैस्तीक्ष्णैः पातयामि नभस्स्थलात् मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम्
Verse 21
राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे
Verse 22
सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः
Verse 23
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम्
Verse 24
देवराजमपि क्रुद्धो मत्तैरावतयायिनम् वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ
Verse 25
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता
Verse 26
समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ऋषयो देवगन्दर्वास्सिद्धाश्च सहचारणैः
Verse 27
समेत्य चोचुस्सहितास्तेऽन्योन्यं पुण्यकर्मणः स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः
Verse 28
जयतां राघवस्संख्ये पौलस्त्यान् रजनीचरान् चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्
Verse 29
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः जातकौतूहलास्तत्र विमानस्थाश्च देवताः ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्
Verse 30
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः जातकौतूहलास्तत्र विमानस्थाश्च देवताः ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्
Verse 31
रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः
Verse 32
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः दुर्जयः करवीराक्षः परुषः कालकार्मुकः मेघमाली महामाली सर्वास्यो रुधिराशनः द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्
Verse 33
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः दुर्जयः करवीराक्षः परुषः कालकार्मुकः मेघमाली महामाली सर्वास्यो रुधिराशनः द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्
Verse 34
महाकपालिस्स्थूलाक्षः प्रमाथी त्रिशिरास्तथा चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः
Verse 35
सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ
0:000:00
Speed: