Book 3 • Chapter 24
Sarga 24
37 verses
Verse 1
आश्रमं प्रति याते तु खरे खरपराक्रमे तानेवौत्पातिकान्रामस्सह भ्रात्रा ददर्श ह
Verse 2
तानुत्पातान्महोघोरानुत्थितान्रोमहर्षणान् प्रजानामहितान्दृष्ट्वा रामो लक्ष्मणमब्रवीत्
Verse 3
इमान्पश्य महाबाहो सर्वभूतापहारिणः समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान्
Verse 4
अमी रुधिरधारास्तु विसृजन्तः खरस्वनाः व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः
Verse 5
सधूमाश्च शरास्सर्वे मम युद्धाभिनन्दिनः रुक्मपृष्ठानि चापानि विचेष्टन्ते च लक्ष्मण
Verse 6
यादृशा इह कूजन्ति पक्षिणः वनचारिणः अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च
Verse 7
सम्प्रहारस्तु सुमहान्भविष्यति न संशयः अयमाख्याति मे बाहुस्स्फुरमाणो मुहुर्मुहुः सन्निकर्षे तु न श्शूर जयं शत्रोः पराजयम् सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते
Verse 8
सम्प्रहारस्तु सुमहान्भविष्यति न संशयः अयमाख्याति मे बाहुस्स्फुरमाणो मुहुर्मुहुः सन्निकर्षे तु न श्शूर जयं शत्रोः पराजयम् सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते
Verse 9
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः
Verse 10
रक्षसां नर्दतां घोरश्श्रूयते च महाध्वनिः आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः
Verse 11
अनागतविधानं तु कर्तव्यं शुभमिच्छता आपदं शङ्कमानेन पुरुषेण विपश्चिता
Verse 12
तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम्
Verse 13
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्
Verse 14
त्वं हि शूरश्च बलवान्हन्याह्येतान्न संशयः स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान्
Verse 15
एवमुक्तस्तु रामेण लक्ष्मणस्सह सीताया शरानादाय चापं च गुहां दुर्गां समाश्रयत्
Verse 16
तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्
Verse 17
स तेनाग्नि निकाशेन कवचेन विभूषितः बभूव राम स्तिमिरे विधूमोऽग्निरिवोत्थितः
Verse 18
स चापमुद्यम्य महच्छरानादाय वीर्यवान् बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः
Verse 19
ततो देवास्सगन्धर्वास्सिद्धाश्च सह चारणैः समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः
Verse 20
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः समेत्य चोचुस्सहिता अन्योन्यं पुण्यकर्मणः
Verse 21
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् चक्रहस्तो यथा युद्धे सर्वानसुर पुङ्गवान्
Verse 22
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति
Verse 23
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति
Verse 24
इति राजर्षयस्सिद्धास्सगणाश्च द्विजर्षभाः जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः
Verse 25
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा
Verse 26
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः
Verse 27
ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत
Verse 28
सिंहनादं विसृजतामन्योन्यमभिगर्जताम् चापानि विस्फ़ारयतां जृम्भतामप्यभीक्ष्णशः विप्रघुष्टस्वनानां च दुन्धुभींश्चापि निघ्नताम् तेषां सुतुमुलश्शब्दः पूरयामास तद्वनम्
Verse 29
सिंहनादं विसृजतामन्योन्यमभिगर्जताम् चापानि विस्फ़ारयतां जृम्भतामप्यभीक्ष्णशः विप्रघुष्टस्वनानां च दुन्धुभींश्चापि निघ्नताम् तेषां सुतुमुलश्शब्दः पूरयामास तद्वनम्
Verse 30
तेन शब्देन वित्रस्ताश्वापदा वनचारिणः दुद्रुवुर्यत्र निश्शब्दं पृष्ठतो न व्यलोकयन्
Verse 31
तत्त्वनीकं महाघोरं रामं समुपसर्पत धृतनानाप्रहरणं गम्भीरं सागरोपमम्
Verse 32
रामोऽपि चारयंश्चक्षुस्सर्वतो रणपण्डितः ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम्
Verse 33
वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्
Verse 34
दुष्प्रेक्ष्यस्सोऽभवत्कृद्धो युगान्ताग्निरिव ज्वलन् तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः
Verse 35
तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः
Verse 36
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः
Verse 37
तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रबृन्दम्
0:000:00
Speed: