🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 25

Sarga 25

42 verses

Verse 1
अवष्टब्धधनुं रामं क्रुद्धं  रिपुघातिनम् ददर्शाऽश्रममागम्य खरस्सह पुरस्सरैः
Verse 2
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्स्वनम् रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्
Verse 3
 खरस्याज्ञया सूतस्तुरगान् समचोदयत् यत्र रामो महाबाहुरेको चुन्वन्स्थितो धनुः
Verse 4
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः नर्दमाना महानादं सचिवाः पर्यवारयन्
Verse 5
 तेषां यातुधानानां मध्ये रथगतः खरः बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः
Verse 6
ततश्शरसहस्रेण राममप्रतिमौजसम् अर्दयित्वा महानादं ननाद समरे खरः
Verse 7
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः रामं नानाविधैः शस्स्रैरभ्यवर्षन्त दुर्जयम्
Verse 8
मुद्गरैः पट्टसैश्शूलैः प्रासैः खङ्गै परश्वथैः राक्षसास्समरे रामं निजघ्नू रोषतत्पराः
Verse 9
ते वलाहसङ्काशा महानादा महौजसः अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव  गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः
Verse 10
ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः शैलेन्द्रमिव धाराभिर्वर्षमाणा वलाहकाः
Verse 11
 तैः परिवृतो घोरैः राघवो रक्षसां गणैः तिथिष्वि महादेवो वृत परिषदाङ्गणै
Verse 12
तानि मुक्तानि शस्त्राणि यातुधानैस्सराघवः प्रतिजग्राह विशिखैर्नद्योघानिव सागरः
Verse 13
 तैः प्रहरणैर्घोरैर्भिन्नगात्रो  विव्यथे रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः
Verse 14
 विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः
Verse 15
विषेदुर्देवगन्धर्वास्सिद्धाश्च परमर्षयः एकं सहस्रैर्भहुभिस्तदा दृष्ट्वा समावृतम्
Verse 16
ततो रामस्सुसङ्कृद्धो मण्डलीकृतकार्मुकः ससर्ज विशिखान्बाणाञ्छतशोऽथ सहस्रश
Verse 17
दुरावारान्दुर्विषहान्कालदण्डोपमान् रणे मुमोच लीलया रामः कङ्कपत्रानजिह्मगान्
Verse 18
ते शराश्शत्रुसैन्येषु मुक्ता रामेण लीलया अददू रक्षसां प्राणान्पाशाः कालकृता इव
Verse 19
भित्त्वा राक्षसदेहां स्तांस्ते शरा रुधिराप्लुताः अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः
Verse 20
असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः
Verse 21
तैर्धनूंषि ध्वजाग्राणि वर्माणि  शिरांसि  बाहून्सहस्ताभरणानूरून्करिकरोपमान् चिच्छेद रामस्समरे शतशोऽथ सहस्रशः
Verse 22
हयान्काञ्चनसन्नाहान्रथयुक्तान्ससारथीन् गजांश्च सगजारोहान्सहयान्सादिनस्तथा पदातीन्समरे हत्वा ह्यनयद्यमसादनम्
Verse 23
हयान्काञ्चनसन्नाहान्रथयुक्तान्ससारथीन् गजांश्च सगजारोहान्सहयान्सादिनस्तथा पदातीन्समरे हत्वा ह्यनयद्यमसादनम्
Verse 24
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः
Verse 25
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः रामेण  सुखं लेभे शुष्कं वनमिवाग्निना
Verse 26
केचिद्भीमबलाश्शूराश्शूलान्खङ्गान्परश्वधान् रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान्
Verse 27
तानि बाणैर्महाबाहुश्शस्त्राण्यावार्य राघवः जहार समरे प्राणांश्चिच्छेद  शिरोधरान्
Verse 28
ते छिन्नशिरसः पेतुश्चिन्नवर्मशरासनाः सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा
Verse 29
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः
Verse 30
तान्सर्वान्पुनरादाय समाश्वास्य  दूषणः अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः
Verse 31
निवृत्तास्तु पुनस्सर्वे दूषणाश्रयनिर्भयाः राममेवाभ्यधावन्त सालतालशिलायुधाः
Verse 32
शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः सृजन्तश्शरवर्षाणि शस्त्रवर्षाणि संयुगे द्रुमवर्षाणि मुञ्चन्तश्शिलावर्षाणि राक्षसाः
Verse 33
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् रामस्य  महाघोरं पुनस्तेषां  रक्षसाम्
Verse 34
ते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः  कृत्वा भैरवं नादमस्त्रं परमभास्वरम् संयोजयत गान्धर्वं राक्षसेषु महाबलः
Verse 35
ते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः  कृत्वा भैरवं नादमस्त्रं परमभास्वरम् संयोजयत गान्धर्वं राक्षसेषु महाबलः
Verse 36
ते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः  कृत्वा भैरवं नादमस्त्रं परमभास्वरम् संयोजयत गान्धर्वं राक्षसेषु महाबलः
Verse 37
ततश्शरसहस्राणि निर्ययुश्चापमण्डलात् सर्वा दश दिशो बाणैरावार्यन्त समागतैः
Verse 38
नाददानं शरान्घोरान्नमुञ्चन्तं शिलीमुखान् विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः
Verse 39
शरान्धकारमाकाशमावृणोत्सदिवाकरम् बभूवावस्थितो रामः प्रवमन्निव ताञ्छरान्
Verse 40
युगपत्पतमानैश्च युगपच्च हतैर्भृशम् युगपत्पतितैश्चैव विकीर्णा वसुधा भवत्
Verse 41
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः
Verse 42
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा ऊरुभिर्जानुभिश्छिन्नैर्नानारूपैविभूषणैः हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि रामस्य बाणाभिहतैर्विचित्रैश्शूलपट्टिसैः खङ्गै खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः चूर्णिताभिश्शिलाभिश्च शरैश्चित्रैरनेकशः विच्छिन्नैस्समरे भूमिर्विकीर्णाऽभूद्भयङ्करा
0:000:00
Speed: