🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 26

Sarga 26

38 verses

Verse 1
दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः सन्दिदेश महाबाहुर्भीमवेगान्दुरासदान् राक्षसान्पञ्चसहस्रान्समरेष्वनिवर्तिनः
Verse 2
ते शूलैः पट्टिशैः खङ्गै शिलावर्षैर्द्रुमैरपि शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः
Verse 3
 दृमाणां शिलानां  वर्षं प्राणहरं महत् प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः
Verse 4
प्रतिगृह्य  तद्वर्षं निमीलित इवर्षभः रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्
Verse 5
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा शरैरवाकिरत्सैन्यं सर्वतस्सहदूषणम्
Verse 6
ततस्सेनापतिः क्रुद्धो दूषणश्शत्रुदूषणः शरैरशनिकल्पैस्तं राघवं समवाकिरत्
Verse 7
ततो रामस्सुसङ्कृद्धः क्षुरेणास्य महद्धनुः चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान्
Verse 8
हत्वा चाश्वान्शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि
Verse 9
 च्छिन्नधन्वा विरथो हताश्वो हतसारथिः जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् आयसैश्शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् वज्राशनिसमस्पर्शं परगोपुरदारणम्
Verse 10
 च्छिन्नधन्वा विरथो हताश्वो हतसारथिः जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् आयसैश्शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् वज्राशनिसमस्पर्शं परगोपुरदारणम्
Verse 11
 च्छिन्नधन्वा विरथो हताश्वो हतसारथिः जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् आयसैश्शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् वज्राशनिसमस्पर्शं परगोपुरदारणम्
Verse 12
तं महोरगसङ्काशं प्रगृह्य परिघं रणे दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः
Verse 13
तस्याभिपतमानस्य दूषणस्य  राघवः द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ
Verse 14
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः
Verse 15
 कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः
Verse 16
तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन्
Verse 17
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः संहृत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः महाकपालः स्थूलाक्षः प्रमाथी  महाबलः
Verse 18
महाकपालो विपुलं शूलमुद्यम्य राक्षसः स्थूलाक्षः पट्टिसं गृह्य प्रमाथी  परश्वधम्
Verse 19
दृष्ट्वैवापततस्तूर्णं राघवस्सायकैश्शितैः तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव
Verse 20
महाकपालस्य शिरश्चिच्छेद परमेषुभिः असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्  पपात हतो भूमौ विटपीव महाद्रुमः
Verse 21
महाकपालस्य शिरश्चिच्छेद परमेषुभिः असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्  पपात हतो भूमौ विटपीव महाद्रुमः
Verse 22
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः दूषणस्यानुगान्पञ्चसहस्रान्कुपितः क्षणात् बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम्
Verse 23
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान्महाबलान्
Verse 24
अयं विनिहतस्संख्ये दूषणस्सपदानुगः महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः
Verse 25
अयं विनिहतस्संख्ये दूषणस्सपदानुगः महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः
Verse 26
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः दुर्जयः करवीराक्षः परुषः कालकार्मुकः मेघमाली महामाली सर्पास्यो रुधिराशनः द्वादशैते महावीर्या बलाध्यक्षास्ससैनिकाः राममेवाभ्यधावन्त विसृजन्तश्शरोत्तमान्
Verse 27

Verse 28

Verse 29
ततः पावकसङ्काशैर्हेमवज्रविभूषितैः जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः
Verse 30
ते रुक्मपुङ्खा विशिखास्सधूमा इव पावकाः निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्
Verse 31
रक्षसां तु शतं रामश्शतेनैकेन कर्णिना सहस्रं  सहस्रेण जघान रणमूर्धनि
Verse 32
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः निपेतुश्शोणितादिग्धा धरण्यां रजनीचराः
Verse 33
तैर्मुक्तकेशैस्समरे पतितैश्शोणितोक्षितैः आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव
Verse 34
क्षणेन तु महाघोरं वनं निहतराक्षसम् बभूव निरयप्रख्यं मांसशोणितकर्दमम्
Verse 35
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् हतान्येकेन रामेण मानुषेण पदातिना
Verse 36
तस्य सैन्यस्य सर्वस्य खरश्शेषो महारथः राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः
Verse 37
शेषा हता महासत्वा राक्षसा रणमूर्धनि घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते
Verse 38
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः
0:000:00
Speed: