Book 3 • Chapter 27
Sarga 27
20 verses
Verse 1
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत्
Verse 2
मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् पश्य रामं महाबाहुं संयुगे विनिपातितम्
Verse 3
प्रतिजानामि ते सत्यमायुधं चाहमालभे यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्
Verse 4
अहं वास्य रणे मृत्युरेष वा समरे मम विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव
Verse 5
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि मयि वा निहते रामं संयुगायोपयास्यसि
Verse 6
खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ
Verse 7
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः
Verse 8
शरधारासमूहान्स महामेघ इवोत्सृजन् व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः
Verse 9
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः धनुषा प्रतिजग्राह विधुन्वन्सायकान् शितान्
Verse 10
स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान् बभूवातीव बलिनोस्सिंहकुञ्जरयोरिव
Verse 11
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः अमर्षी कुपितोरामस्संरब्धमिदमब्रवीत्
Verse 12
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् पुष्पैरिव शरैर्यस्य ललाटेऽस्मिन्परिक्षतः
Verse 13
ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान् एवमुक्त्वा तु संरब्धश्शरानाशीविषोपमान् 3.27.13 त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश
Verse 14
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः
Verse 15
अष्टभिस्सायकैस्सूतं रथोपस्थान्न्यपातयत् रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्
Verse 16
ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः
Verse 17
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिश्शितैः
Verse 18
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः
Verse 19
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रया द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव
Verse 20
तान्खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्स्वयम् राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा
0:000:00
Speed: