🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 28

Sarga 28

33 verses

Verse 1
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम्
Verse 2
 दृष्ट्वा राक्षसं सैन्यमविसह्यं महाबलः हतमेकेन रामेण त्रिशिरोदूषणावपि तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः आससाद खरो रामं नमुचिर्वासवं यथा
Verse 3
 दृष्ट्वा राक्षसं सैन्यमविसह्यं महाबलः हतमेकेन रामेण त्रिशिरोदूषणावपि तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः आससाद खरो रामं नमुचिर्वासवं यथा
Verse 4
विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव
Verse 5
ज्यां विधून्वंसुबहुशश्शिक्षयास्त्राणि दर्शयन् चचार समरे मार्गाञ्छरै रथगतः खरः
Verse 6
 सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः
Verse 7
 सायकैर्दुर्विसहैस्सस्फुलिङ्गैरिवाग्निभिः नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः
Verse 8
तद्बभूव शितैर्बाणैः खररामविसर्जितैः पर्याकाशमनाकाशं सर्वतश्शरसङ्कुलम्
Verse 9
शरजालावृतस्सूर्यो  तदा स्म प्रकाशते अन्योन्यवधसंरम्भादुभयोस्संप्रयुध्यतोः
Verse 10
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः आजघान खरो रामं तोत्रैरिव महाद्विपम्
Verse 11
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ददृशुस्सर्वभूतानि पाशहस्तमिवान्तकम्
Verse 12
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् परिश्रान्तं महासत्वं मेने रामं खरस्तदा
Verse 13
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा
Verse 14
ततः सूर्यनिकाशेन रथेन महता खरः आससाद रणे रामं पतङ्ग इव पावकम्
Verse 15
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम्
Verse 16
 पुनस्त्वपरान्सप्त शरानादाय वर्मणि निजघान खरः क्रुद्धश्शक्राशनिसमप्रभान्
Verse 17
ततस्तत्प्रहतं बाणैः खरमुक्तैस्सुपर्वभिः पपात कवचं भूमौ रामस्यादित्यवर्चसः
Verse 18
ततश्शरसहस्रेण राममप्रतिमौजसम् अर्दयित्वा महानादं ननाद समरे खरः
Verse 19
 शरैरर्दितः क्रुद्धस्सर्वगात्रेषु राघवः रराज समरे रामो विधूमोऽग्निरिव ज्वलन्
Verse 20
ततो गम्भीरनिर्ह्रादं रामश्शत्रुनिबर्हणः चकारान्ताय  रिपोस्सज्यमन्यन्महद्धनुः
Verse 21
सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा वरं तद्धनुरुद्यम्य खरं समभिधावत
Verse 22
ततः कनकपुङ्खैस्तु शरैस्सन्नतपर्वभिः बिभेद रामस्सङ्क्रुद्धः खरस्य समरे ध्वजम्
Verse 23
 दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः जगाम धरणीं सूर्यो देवतानामिवाज्ञया
Verse 24
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः
Verse 25
 रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्
Verse 26
 धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे मुमोच परमेष्वासष्षट्छरानभिलक्षितान्
Verse 27
शिरस्येकेन बाणेन द्वाभ्यां बह्वोरथार्दयत् त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान 
Verse 28
ततः पश्चान्महातेजा नाराचान्भास्करोपमान् जिघांसू राक्षसङ्कृद्धस्त्रयोदश समाददे
Verse 29
ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् षष्ठेन तु शिरस्सङ्ख्ये खरस्य रथसारथेः त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः द्वादशेन तु बाणेन खरस्य सशरं धनुः छित्वा वज्रनिकाशेन राघवः प्रहसन्निव त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्
Verse 30

Verse 31

Verse 32
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा
Verse 33
तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च अपूजयन्प्राञ्जलयः प्रहृष्टाः तदा विमानाग्रगतास्समेताः
0:000:00
Speed: