🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 29

Sarga 29

28 verses

Verse 1
खरं तु विरथं रामो गदापाणिमवस्थितम् मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्
Verse 2
गजाश्वरथसम्बाधे बले महति तिष्ठता कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम्
Verse 3
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् त्रयाणामपि लोकानामीश्वरोऽपि  तिष्ठति
Verse 4
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्
Verse 5
लोभात्पापानि कुर्वाणः कामाद्वा यो  बुध्यते भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव
Verse 6
वसतो दण्डकारण्ये तापसान्धर्मचारिणः किन्नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस
Verse 7
 चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः
Verse 8
अवश्यं लभते जन्तुः फलं पापस्य कर्मणः घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम्
Verse 9
नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् सविषाणामिवान्नानां भुक्तानां क्षणदाचर
Verse 10
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् अहमासादितो राजा प्राणान्हन्तुं निशाचर
Verse 11
अद्य हि त्वां मया मुक्ताश्शराः काञ्चनभूषणाः विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः
Verse 12
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः तानद्य निहतस्सङ्ख्ये ससैन्योऽनुगमिष्यसि
Verse 13
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा
Verse 14
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम अद्य ते पातयिष्यामि शिरस्तालफलं यथा
Verse 15
एवमुक्तस्तु रामेण कृद्धस्संरक्तलोचनः प्रत्युवाच खरो रामं प्रहसन्क्रोधमूर्छितः
Verse 16
प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज आत्मना कथमात्मानमप्रशस्यं प्रशंससि
Verse 17
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः कथयन्ति  ते किञ्चित्तेजसा स्वेन गर्विताः
Verse 18
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः निरर्थकं विकत्थन्ते यथा राम विकत्थसे
Verse 19
कुलं व्यपदिशन्वीरस्समरे कोऽभिधास्यति मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम्
Verse 20
सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना
Verse 21
 तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्
Verse 22
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव त्रयाणामपि लोकानां पाशहस्त इवान्तकः
Verse 23
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि  त्वहम् अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत्
Verse 24
चतुर्दश सहस्राणि राक्षसानां हतानि ते त्वद्विनाशात्करोम्येषां तेषामश्रुप्रमार्जनम्
Verse 25
इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा
Verse 26
खरबाहुप्रयुक्ता सा प्रदीप्ता महती गदा भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः
Verse 27
तामापतन्तीं ज्वलतां मृत्युपाशोपमां गदाम् अन्तरिक्षगतां रामचशिच्छेद बहुधा शरैः
Verse 28
सा विकीर्णा शरैर्भग्ना पपात धरणीतले गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता
0:000:00
Speed: