🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 30

Sarga 30

41 verses

Verse 1
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत्
Verse 2
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि
Verse 3
एषा बाणविनिर्भिन्ना गदा भूमितलं गता अभिधानप्रगल्भस्य तव प्रत्ययघातिनी
Verse 4
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम् राक्षसानां करोमीति मिथ्या तदपि ते वचः
Verse 5
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः प्राणानहं हरिष्यामि गरुत्मानमृतं यथा
Verse 6
अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम् विदारितस्य मद्बाणैर्मही पास्यति शोणितम्
Verse 7
पांसुरूषितसर्वाङ्गस्स्रस्तन्यस्त भुजद्वयः स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव
Verse 8
प्रबद्धनिद्रे शयिते त्वयि राक्षसपांसने भविष्यन्तिशरण्यानां शरण्या दण्डका इमे
Verse 9
जनस्थाने हतस्थाने तव राक्षस मच्छरैः निर्भया विचरिष्यन्ति सर्वतो मुनयो वने
Verse 10
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः बाष्पार्द्रवदना दीना भयादन्यभयावहाः
Verse 11
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः
Verse 12
नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक यत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः
Verse 13
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे खरो निर्भर्त्सयामास रोषात्खरतरस्वरः
Verse 14
दृढं खल्ववलिप्तोऽसि भयेष्वपि  निर्भयः वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो  बुध्यसे
Verse 15
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये कार्याकार्यं  जानन्ति ते निरस्तषडिन्द्रियाः
Verse 16
एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः  ददर्श महासालमविदूरे निशाचरः रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्
Verse 17
 तमुत्पाटयामास संदश्य दशनच्छदम् तं समुत्क्षिप्य बाहुभ्यां विनद्य  महाबलः राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्
Verse 18
 तमुत्पाटयामास संदश्य दशनच्छदम् तं समुत्क्षिप्य बाहुभ्यां विनद्य  महाबलः राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्
Verse 19
तमापतन्तं बाणौघैच्छित्वा रामः प्रतापवान् रोषमाहारयत्तीव्रं निहन्तुं समरे खरम्
Verse 20
जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः निर्भिभेद सहस्रेण बाणानां समरे खरम्
Verse 21
तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः
Verse 22
विह्वलस्सकृतो बाणैः खरो रामेण संयुगे मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम्
Verse 23
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् अपासर्पत्प्रतिपदं किञ्चित्वरितविक्रमः
Verse 24
ततः पावकसङ्काशं वधाय समरे शरम् खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्
Verse 25
 तं दत्तं मघवता सुरराजेन धीमता संदधे चापि धर्मात्मा मुमोच  खरं प्रति
Verse 26
 विमुक्तो महाबाणो निर्घातसमनिस्वनः रामेण धनुरायम्य खरस्योरसिचापतत्
Verse 27
 पपात खरो भूमौ दह्यमानश्शरानग्निना रुद्रेणेव विनिर्दग्धश्वेतारण्ये यथान्तकः
Verse 28
 वृत्र इव वज्रेण फेनेन नमुचिर्यथा बलो वेन्द्राशनिहतो निपपात हतः खरः
Verse 29
ततो राजर्षयस्सर्वे सङ्गताः परमर्षयः सभाज्य मुदिता राममिदं वचनमब्रुवन्
Verse 30
एतदर्थं महातेजा महेन्द्रः पाकशासनः शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः
Verse 31
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम्
Verse 32
तदिदं नः कृतं कार्यं त्वया दशरथात्मज सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः
Verse 33
एतस्मिन्तरे देवाश्चारणैस्सह सङ्गताः दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः रामस्योपरि संह्रुष्टा ववृषुर्विस्मितास्तदा
Verse 34
अर्धाधिकमुहूर्तेन रामेण निशितैश्शरैः चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् खरदूषणमुख्यानां निहतानि महाहवे
Verse 35
अर्धाधिकमुहूर्तेन रामेण निशितैश्शरैः चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् खरदूषणमुख्यानां निहतानि महाहवे
Verse 36
अहो बत महत्कर्म रामस्य विदितात्मनः अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्
Verse 37
तस्मिन्नन्तरे वीरो लक्ष्मणस्सह सीतया गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी
Verse 38
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः
Verse 39
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् बभूव हृष्टा वैदेही भर्तारं परिषस्वजे
Verse 40
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान्हतान् रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा
Verse 41
ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा
0:000:00
Speed: