Book 3 • Chapter 31
Sarga 31
50 verses
Verse 1
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्
Verse 2
जनस्थानस्थिता राजन्राक्षसा बहवो हताः खरश्च निहतस्सङ्ख्ये कथञ्चिदहमागतः
Verse 3
एवमुक्तो दशग्रीवः क्रुद्ध स्संरक्तलोचनः अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा
Verse 4
केन रम्यं जनस्थानं हतं मम परासुना को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति
Verse 5
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना
Verse 6
कालस्य चाप्यहं कालो दहेयमपि पावकम् मृत्युं मरणधर्मेण संयोजयितुमुत्सहे
Verse 7
दहेयमपि सङ्कृद्धस्तेजसाऽदित्यपावकौ वातस्य तरसा वेगं निहन्तुमहमुत्सहे
Verse 8
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः भयात्सन्दिग्धया वाचा रावणं याचतेऽभयम्
Verse 9
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः स विस्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः
Verse 10
पुत्रो दशरथस्यास्ति सिंहसंहननो युवा रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः
Verse 11
वीरः पृथुयशाश्श्रीमानतुल्यबलविक्रमः हतं तेन जनस्थानं खरश्च सह दूषणः
Verse 12
अकम्पनवच श्रुत्वा रावणो राक्षसाधिपः नागेन्द्र इव निश्वस्य वचनं चेदमब्रवीत्
Verse 13
स सुरेन्द्रेण संयुक्तो रामस्सर्वामरैस्सह उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन
Verse 14
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः आचचक्षे बलं तस्य विक्रमं च महात्मनः
Verse 15
रामो नाम महातेजा श्रेष्ठस्सर्वधनुष्मताम् दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि
Verse 16
तस्यानुरूपो बलवान्रक्ताक्षो दन्दुभिस्वनः कनीयान्लक्ष्मणो नाम भ्राता शशिनिभाननः
Verse 17
स तेन सह संयुक्तः पावकेनानिलो यथा श्रीमान्राजवरस्तेन जनस्थानं निपातितम्
Verse 18
नैव देवा महात्मानो नात्र कार्या विचारणा शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्
Verse 19
येन येन च गच्छन्ति राक्षसा भयकर्शिताः 3.31.19 तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् इत्थं विनाशितं तेन जनस्थानं तवानघ
Verse 20
येन येन च गच्छन्ति राक्षसा भयकर्शिताः 3.31.19 तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् इत्थं विनाशितं तेन जनस्थानं तवानघ
Verse 21
अकम्पनवचश्रुत्वा रावणो वाक्यमब्रवीत् जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम्
Verse 22
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः शृणु राजन्यथावृत्तं रामस्य बलपौरुषम्
Verse 23
असाध्यः कुपितो रामो विक्रमेण महायशाः आपगायास्सुपूर्णाया वेगं परिहरेच्छरैः
Verse 24
सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत् असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम्
Verse 25
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः
Verse 26
संहृत्य वा पुनर्लोकान्विक्रमेण महायशाः शक्तस्सपुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः
Verse 27
न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि रक्षसां वापि लोकेन स्वर्गः पापजनैरिव
Verse 28
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि अयं तस्य वधोपायस्तन्ममैकमनाश्शृणु
Verse 29
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता
Verse 30
नैव देवी न गन्धर्वी नाप्सरा नापि दानवी तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत्
Verse 31
तस्यापहर भार्यांत्वं प्रमथ्य तु महावने सीतया रहितः कामी रामो हास्यति जीवितम्
Verse 32
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः चिन्तयित्वा महाबाहुरकम्पनमुवाच ह
Verse 33
बाढं काल्यं गमिष्यामि ह्येकस्सारथिना सह आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम्
Verse 34
अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः रथेनादित्यवर्णेन दिशस्सर्वाः प्रकाशयन्
Verse 35
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् सञ्चार्यमाणश्शुशुभे जलदे चन्द्रमा इव
Verse 36
स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः
Verse 37
तं स्वयं पूजयित्वा तु आसनेनोदकेन च अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्
Verse 38
कच्चित्सुकुशलं राजन्लोकानां राक्षसेश्वर आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः
Verse 39
एवमुक्तो महातेजा मारीचेन स रावणः ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः
Verse 40
आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा जनस्थानमवध्य तत्सर्वं युधि निपातितम् तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे
Verse 41
राक्षसेन्द्रवचश्श्रुत्वा मारीचो वाक्यमब्रवीत् आख्याता केन सीता सा मित्ररूपेण शत्रुणा त्वया राक्षसशार्दूल को न नन्दति नन्दितः
Verse 42
राक्षसेन्द्रवचश्श्रुत्वा मारीचो वाक्यमब्रवीत् आख्याता केन सीता सा मित्ररूपेण शत्रुणा त्वया राक्षसशार्दूल को न नन्दति नन्दितः
Verse 43
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे रक्षोलोकस्य सर्वस्य कश्शृङ्गं छेत्तुमिच्छति
Verse 44
प्रोत्साहयति कश्च त्वां स च शत्रुरसंशयः अशीविषमुखाद्दंष्ट्रामुद्धर्तुं चेच्छति त्वया
Verse 45
कर्मणा केन केनासि कापथं प्रतिपादितः सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि
Verse 46
विशुद्धवंशाभिजनाग्रहस्त स्तेजोमदस्संस्थितदोर्विषाणः उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती
Verse 47
असौ रणान्तः स्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः
Verse 48
चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्
Verse 49
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ त्वं स्वेषु दारेषु रमस्व नित्यं रामस्सभार्यो रमतां वनेषु
Verse 50
एवमुक्तो दशग्रीवो मारीचेन स रावणः न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्
0:000:00
Speed: