Book 3 • Chapter 32
Sarga 32
25 verses
Verse 1
ततश्शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश हतान्येकेन रामेण रक्षसां भीमकर्मणाम् दूषणं च खरं चैव हतं त्रिशिरसा सह दृष्ट्वा पुनर्महानादं ननाद जलदो यथा
Verse 2
ततश्शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश हतान्येकेन रामेण रक्षसां भीमकर्मणाम् दूषणं च खरं चैव हतं त्रिशिरसा सह दृष्ट्वा पुनर्महानादं ननाद जलदो यथा
Verse 3
सा दृष्ट्वा कर्म रामस्य कृतमन्यैस्सुदुष्करम् जगाम परमोद्विग्ना लङ्कां रावणपालिताम्
Verse 4
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्
Verse 5
आसीनं सूर्यसङ्काशे काञ्चने परमासने रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्
Verse 6
देवगन्धर्वभूतानामृषीणां च महात्मनाम् अजेयं समरे शूरं व्यात्ताननमिवान्तकम्
Verse 7
देवासुरविमर्देषु वज्राशनिकृतव्रणम् ऐरावतविषाणग्रैरुद्घृष्टकिणवक्षसम्
Verse 8
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् विशालवक्षसं वीरं राजलक्षण शोभितम्
Verse 9
स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्
Verse 10
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे अन्यैश्शस्त्रप्रहारैश्च महायुद्धेषु ताडितम्
Verse 11
अहताङ्गं समस्तैश्च देवप्रहरणैस्तथा अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्
Verse 12
क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्
Verse 13
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् तक्षकस्य प्रियां भार्यां पराजित्य जहार यः
Verse 14
कैलासपर्वतं गत्वा विजित्य नरवाहनम् विमानं पुष्पकं तस्य कामगं वै जहार यः
Verse 15
वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान्
Verse 16
चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ निवारयति बाहुभ्यां यश्शैलशिखरोपमः
Verse 17
दशवर्षसहस्राणि तपस्तप्वा महावने पुरा स्वयंभुवे धीरश्शिरांस्युपजहार यः
Verse 18
देवदानवगन्धर्वपिशाचपतगोरगैः अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते
Verse 19
मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः हविर्धानेषु यस्सोममुपहन्ति महाबलः
Verse 20
आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् कर्कशं निरनुक्रोशं प्रजानामहिते रतम्
Verse 21
रावणं सर्वभूतानां सर्वलोकभयावहम् राक्षसी भ्रातरं शूरं सा ददर्श महाबलम्
Verse 22
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् आसने सूपविष्टं च कालकालमिवोद्यतम्
Verse 23
राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् 3.32.23 रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला
Verse 24
राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् 3.32.23 रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला
Verse 25
तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता
0:000:00
Speed: