🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 33

Sarga 33

24 verses

Verse 1
ततः शूर्पणखा दीना रावणं लोकरावणम् अमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत्
Verse 2
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे
Verse 3
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् लुब्धं  बहुमन्यन्ते श्मशानाग्निमिव प्रजाः
Verse 4
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः  तु वै सह राज्येन तैश्च कार्यैर्विनश्यति
Verse 5
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् वर्जयन्ति नरा दूरान्नदीपङ्कामिव द्विपाः
Verse 6
ये  रक्षन्ति विषयमस्वाधीना नराधिपाः ते  वृद्ध्या प्रकाशन्ते गिरयस्सागरे यथा
Verse 7
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः अयुक्तचारश्चपलः कथं राजा भविष्यसि
Verse 8
त्वन्तु बालस्वभावश्च बुद्धिहीनश्च राक्षस ज्ञातव्यन्तु  जानीषे कथं राजा भविष्यसि
Verse 9
येषां चारश्च कोशश्च नयश्च जयतां वर अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैस्समाः
Verse 10
यस्मात्पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः
Verse 11
अयुक्तचारं मन्ये त्वां प्राकृतैस्सचिवैर्वृतम् स्वजनं तु जनस्थाने हतं यो नावबुद्ध्यसे
Verse 12
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् हतान्येकेन रामेण खरश्च सहदूषणः
Verse 13
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः धर्षितं  जनस्थानं रामेणाक्लिष्टकर्मणा
Verse 14
त्वन्तु लुब्दः प्रमत्तश्च पराधीनश्च रावण विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे
Verse 15
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्
Verse 16
अतिमानिनमग्राह्यमात्मसम्भावितं नरम् क्रोधिनं व्यसने हन्ति स्वजनोऽपि महीपतिम्
Verse 17
नानुतिष्ठति कार्याणि भयेषु  बिभेति  क्षिप्रं राज्याच्युतो दीनस्तृणैस्तुल्यो भविष्यति
Verse 18
शुष्कैः काष्ठैर्भवेत्कार्यं लोष्टैरपि  पांसुभिः  तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः
Verse 19
अपभुक्तं यथा वासस्स्रजो वा मृदिता यथा एवं राज्यात्परिभ्रष्टस्समर्थोऽपि निरर्थकः
Verse 20
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः कृतज्ञो धर्मशीलश्च  राजा तिष्ठते चिरम्
Verse 21
नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा त्यक्तक्रोधप्रमादश्च  राजा पूज्यते जनैः
Verse 22
त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः
Verse 23
परावमन्ता विषयेषु सङ्गतो  देशकालप्रविभागतत्ववित् अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो नचिराद्विपत्स्यसे
Verse 24
इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं  रावणः
0:000:00
Speed: