Book 3 • Chapter 34
Sarga 34
27 verses
Verse 1
ततश्शूर्पणखां दृष्ट्वा ब्रुवन्तीं परुषं वचः अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः
Verse 2
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः किमर्थं दण्डकारण्यं प्रविष्टस्सुदुरासदम्
Verse 3
आयुधं किञ्च रामस्य निहता येन राक्षसाः खरश्च निहतस्संख्ये दूषणस्त्रिशिरास्तथा
Verse 4
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ततो रामं यथातत्वमाख्यातुमुपचक्रमे
Verse 5
दीर्घबाहुर्विशालाक्ष श्चीरकृष्णाजिनाम्बरः कन्दर्पसमरूपश्च रामो दशरथात्मजः
Verse 6
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् दीप्तान् क्षिपति नाराचान्सर्पानिव महाविषान्
Verse 7
नाददानं शरान्घोरान्नमुञ्चन्तं शिलीमुखान् न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे
Verse 8
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः इन्द्रेणेवोत्तमं सस्यमाहतन्त्वश्मवृष्टिभिः
Verse 9
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश निहतानि शरै स्तीक्ष्णैस्तेनैकेन पदातिना अर्धाधिकमुहूर्तेन खरश्च सहदूषणः
Verse 10
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः एका कथञ्चिन्मुक्ताहं परिभूय महात्मना स्त्रीवधं शङ्कमानेन रामेण विदितात्मना
Verse 11
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः एका कथञ्चिन्मुक्ताहं परिभूय महात्मना स्त्रीवधं शङ्कमानेन रामेण विदितात्मना
Verse 12
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्
Verse 13
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः
Verse 14
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता
Verse 15
सा सुकेशी सुनासोरुस्सुरूपा च यशस्विनी देवतेव वनस्यास्य राजते श्रीरिवापरा
Verse 16
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा सीता नाम वरारोहा वैदेही तनुमध्यमा
Verse 17
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी नैवंरूपा मया नारी दृष्टपूर्वा महीतले
Verse 18
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् अतिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात्
Verse 19
सा सुशीला वपुश्श्लाघ्या रूपेणाप्रतिमा भुवि तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः
Verse 20
तां तु विस्तीर्णजघनां पीनश्रोणिपयोधराम् भार्यार्थे च तवानेतुमुद्यताहं वराननाम् विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज
Verse 21
तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि
Verse 22
यदि तस्यामभिप्रायो भार्यार्थे तव जायते शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः
Verse 23
कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः
Verse 24
तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि
Verse 25
रोचते यति ते वाक्यं ममैतद्राक्षसेश्वर क्रियतां निर्विशङ्केन वचनं मम रावण
Verse 26
विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर
Verse 27
निशम्य रामेण शरैरजिह्मगै र्हतान् जनस्थानगतान्निशाचरान् खरं च बुद्ध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि
0:000:00
Speed: