Book 3 • Chapter 35
Sarga 35
42 verses
Verse 1
ततश्शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह
Verse 2
तत्कार्यमनुगम्याथ यथावदुपलभ्य च दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् 3.35.2 इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह
Verse 3
तत्कार्यमनुगम्याथ यथावदुपलभ्य च दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् 3.35.2 इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह
Verse 4
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः सूतं सञ्चोदयामास रथस्संयोज्यतामिति
Verse 5
एवमुक्तः क्षेणेनैव सारथिर्लघुविक्रमः रथं संयोजयामास तस्याभिमतमुत्तमम्
Verse 6
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः मेघप्रतिमनादेन स तेन धनदानुजः राक्षसाधिपतिश्श्रीमान्ययौ नदनदीपतिम्
Verse 7
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः मेघप्रतिमनादेन स तेन धनदानुजः राक्षसाधिपतिश्श्रीमान्ययौ नदनदीपतिम्
Verse 8
स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः स्निग्धवैदूर्यसंकाश स्तप्तकाञ्चनकुण्डलः विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् कामगं रथमास्थाय शुशुभे राक्षसेश्वरः विद्युन्मण्डलवान्मेघस्सबलाक इवाम्बरे
Verse 9

Verse 10

Verse 11
स शैलं सागरानूपं वीर्यवानवलोकयन् नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः
Verse 12
शीतमङ्गलतोयाभिः पद्मिनीभिस्समन्ततः विशालैराश्रमपदैर्वेदिमद्भिस्समावृतम्
Verse 13
कदल्याढकिसम्बाधं नारिकेलोपशोभितम् सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम्
Verse 14
नागैस्सुपर्णैर्गन्धैर्वैः किन्नरैश्च सहस्रशः अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः अत्यन्तनियताहारैश्शोभितं परमर्षिभिः जितकामैश्च सिद्धैश्च चारणैरुपशोभितम्
Verse 15
नागैस्सुपर्णैर्गन्धैर्वैः किन्नरैश्च सहस्रशः अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः अत्यन्तनियताहारैश्शोभितं परमर्षिभिः जितकामैश्च सिद्धैश्च चारणैरुपशोभितम्
Verse 16
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् क्रीडारतिविधिज्ञाभिरप्सरोभिस्सहस्रशः
Verse 17
सेवितं देवपन्तीभिश्श्रीमतीभिश्श्रियाऽऽवृतम् देवदानवसङ्घैश्च चरितं त्वमृताशिभिः
Verse 18
हंसक्रौञ्चप्लवाकीर्णं सारसैस्सम्प्रणादितम् वैढूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा
Verse 19
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च तूर्यगीताभिजुष्टानि विमानानि समन्ततः तपसा जितलोकानां कामगान्यभिसम्पतन् गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः
Verse 20
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च तूर्यगीताभिजुष्टानि विमानानि समन्ततः तपसा जितलोकानां कामगान्यभिसम्पतन् गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः
Verse 21
निर्यासरसमूलानां चन्दनानां सहस्रशः वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च
Verse 22
अगरूणां च मुख्यानां वनान्युपवनानि च तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम्
Verse 23
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च मुक्तानां च समूहानि शुष्यमाणानि तीरतः
Verse 24
शङ्खानां प्रसरं चैव प्रवालनिचयं तथा काञ्चनानि च शैलानि राजतानि च सर्वशः
Verse 25
प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च धनधान्योपपन्नानि स्त्रीरत्नैश्शोभितानि च हस्त्यश्वरथगाढानि नगराण्यवलोकयन्
Verse 26
तं समं सर्वतस्निग्धं मृदुसंस्पर्शमारुतम् अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्
Verse 27
तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् समन्ताद्यस्य ताश्शाखाश्शतयोजनमायताः
Verse 28
यस्य हस्तिनमादाय महाकायं च कच्छपम् भक्षार्थं गरुडश्शाखामाजगाम महाबलः
Verse 29
तस्य तां सहसा शाखां भारेण पतगोत्तमः सुपर्णः पर्णबहुलां बभञ्ज च महाबलः
Verse 30
तत्र वैखानसा माषा वालखिल्या मरीचिपाः अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः
Verse 31
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् जगामादाय वेगेन तौ चोभौ गजकच्छपौ
Verse 32
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् निषादविषयं हत्वा शाखया पतगोत्तमः प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्
Verse 33
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् निषादविषयं हत्वा शाखया पतगोत्तमः प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्
Verse 34
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः अमृतानयनार्थं वै चकार मतिमान्मतिम्
Verse 35
अयोजालानि निर्मथ्य भित्वा रत्नमयं गृहम् महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः
Verse 36
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः
Verse 37
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे
Verse 38
तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ददर्श नियताहारं मारीचं नाम राक्षसाम्
Verse 39
स रावणस्समागम्य विधिवत्तेन रक्षसा मारीचेनार्चितो राजा सर्वकामैरमानुषैः
Verse 40
तं स्वयं पूजयित्वा तु भोजनेनोदकेन च अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्
Verse 41
कच्चित्सुकुशलं राजन्लङ्कायां राक्षसेश्वर केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः
Verse 42
एवमुक्तो महातेजा मारीचेन स रावणः ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः
0:000:00
Speed: