Book 3 • Chapter 37
Sarga 37
25 verses
Verse 1
तच्छृत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम्
Verse 2
सुलभाः पुरुषा राजन्सततं प्रियवादिनः अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
Verse 3
न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्
Verse 4
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् अपि रामो नासङ्क्रुद्धः कुर्याल्लोकमराक्षसम्
Verse 5
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा अपि सीतानिमित्तं च न भवेद्व्यसनं मम
Verse 6
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा
Verse 7
त्वद्विधः कामवृत्तो हि दुश्शीलः पापमन्त्रितः आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः
Verse 8
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन न लुब्धो न च दुश्शीलो न च क्षत्रियपांसनः न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः
Verse 9
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन न लुब्धो न च दुश्शीलो न च क्षत्रियपांसनः न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः
Verse 10
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम्
Verse 11
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्
Verse 12
न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः अनृतं दुश्श्रुतं चैव नैव त्वं वक्तुमर्हसि
Verse 13
रामो विग्रहवान् धर्मस्साधुस्सत्यपराक्रमः राजा सर्वस्य लोकस्य देवानां मघवानिव
Verse 14
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः
Verse 15
शरार्चिषमाधृष्यं चापखङ्गेन्धनं रणे रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि
Verse 16
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् चापबाणधरं तीक्ष्णं शत्रुसैन्यप्रहारिणम् राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः नात्यासादयितुं तात रामान्तकमिहार्हसि
Verse 17
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् चापबाणधरं तीक्ष्णं शत्रुसैन्यप्रहारिणम् राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः नात्यासादयितुं तात रामान्तकमिहार्हसि
Verse 18
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा न त्वं समर्थस्तां हर्तुं रामचापाश्रयं वने
Verse 19
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता
Verse 20
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा
Verse 21
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप दृष्टश्चेत्वं रणे तेन तदन्तं तव जीवितम्
Verse 22
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्
Verse 23
स सर्वैस्सचिवैस्सार्धं विभीषणपुरोगमैः मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्वतः हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि
Verse 24

Verse 25
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना इदं हि भूयश्श़ृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर
0:000:00
Speed: