Book 3 • Chapter 38
Sarga 38
33 verses
Verse 1
कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम् बलं नागसहस्रस्य धारयन्पर्वतोपमः नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः भयं लोकस्य जनयन्किरीटी परिघायुधः व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन्
Verse 2
कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम् बलं नागसहस्रस्य धारयन्पर्वतोपमः नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः भयं लोकस्य जनयन्किरीटी परिघायुधः व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन्
Verse 3
विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्
Verse 4
अद्य रक्षतु मां रामः पर्वकाले समाहितः मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर
Verse 5
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्
Verse 6
बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः कामं तु मम यत्सैन्यं मया सह गमिष्यति
Verse 7
बलेन चतुरङ्गेण स्वयमेत्य निशाचरान् वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान्
Verse 8
इत्येवमुक्तस्समुनी राजानमिदमब्रवीत् रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः
Verse 9
देवतानामपि भवान् समरेष्वभिपालकः आसीत्तव कृतं कर्म त्रिलोके विदितं नृप
Verse 10
काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप बालोऽप्येष महातेजास्समर्थस्तस्य निग्रहे गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप
Verse 11
काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप बालोऽप्येष महातेजास्समर्थस्तस्य निग्रहे गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप
Verse 12
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम् जगाम परमप्रीतो विश्वामित्रस्स्वमाश्रमम्
Verse 13
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् बभूवोपस्थितो रामश्चित्रं विष्फारयन्धनुः
Verse 14
अजातव्यञ्जनश्रीमान्पद्मपत्रनिभेक्षणः एकवस्त्रधरो धन्वी शिखी कनकमालया शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा अदृश्यत ततो रामो बालचन्द्र इवोदितः
Verse 15
अजातव्यञ्जनश्रीमान्पद्मपत्रनिभेक्षणः एकवस्त्रधरो धन्वी शिखी कनकमालया शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा अदृश्यत ततो रामो बालचन्द्र इवोदितः
Verse 16
ततोऽहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः बली दत्तवरोदर्पादाजगाम तदाश्रमम्
Verse 17
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः मां तु दृष्ट्वा धनुस्सज्यमसम्भ्रान्तश्चकार सः
Verse 18
अवजानन्नहं मोहाद्बालोऽयमिति राघवम् विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः
Verse 19
तेन मुक्तस्ततो बाणः शितश्शत्रुनिबर्हणः तेनाहं त्वाहतः क्षिप्तस्समुद्रे शतयोजने
Verse 20
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः रामस्य शरवेगेन निरस्तोऽहमचेतनः
Verse 21
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि प्राप्य संज्ञां चिरात्तात लङ्कां प्रतिगतः पुरीम्
Verse 22
एवमस्मि तदा मुक्तस्सहायास्तु निपातिताः अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा
Verse 23
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण
Verse 24
क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम् रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि
Verse 25
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम् द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते
Verse 26
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा
Verse 27
दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान् द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान्
Verse 28
हृतदारान् सदारांश्च दश विद्रवतो दिशः हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान्
Verse 29
शरजालपरिक्षिप्तामग्निज्वालासमावृताम् प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः
Verse 30
परदाराभिमर्शात्तु नान्यत्पापतरं महत् प्रमदानां सहस्रं च तव राजन्परिग्रहः
Verse 31
भव स्वदारनिरतस्वकुलं रक्ष राक्षस मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः
Verse 32
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च यदीच्छसि चिरं भोक्तं मा कृथा रामविप्रियम्
Verse 33
निवार्यमाणस्सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि गमिष्यसि क्षीणबलस्सबान्धवो यमक्षयं रामशरात्तजीवितः
0:000:00
Speed: